SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ अध्ययनं [-], निर्युक्तिः [७५६ ], वि० भा०गाथा [ २२२१], भाष्यं [ १३७...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः | यदपि चोक्तं- 'प्रत्यक्षं भावसम्पादितसत्ताकमतस्तमेव साक्षात्कर्तुमल' मित्यादि, तदपि वाडिशजल्पितं, प्रत्यक्षं हि नाम तेन सम्पादिसत्ताकमुच्यते यदुत्पन्नं सत् प्रत्यक्षं साक्षात्करोति, कुरुते च प्रत्यक्षं साक्षात् घटपटादिरूपं विशेषं न सहहनयसम्मतं सामान्यं, न विशेषो घटपटादिरूपोऽभावो, भावात्मकत्वात्, ततो नार्थक्रियाशक्तिविकल इत्यदोषः, ततो विशेष एव प्रत्यक्षादिप्रमाणप्रसिद्धो न सामान्यमिति सामान्याग्रह एव त्याज्यो, न विशेषामहः, किंच-यदेवार्थक्रियाकारि तदेव परमार्थसत्, न च सामान्यं दोहदाहादिक्रियासूपयुज्यते, किन्तु विशेषा एव गवादयः, ततस्त एत्र तात्त्विका न सामान्यमिति । एष व्यवहारनयो लोकसंव्यवहारपरः ततो यदेव लोकोऽभिमन्यते तदेवैषोऽपि न शेषं सन्तमपि, लोकश्च भ्रमरादौ तत्त्ववृत्त्या पञ्चवर्णाद्युपेतेऽपि कृष्णवर्णादित्वमेव प्रतिपन्नस्तस्य स्पष्टतयोपलभ्यमानत्वात्, तत एषोऽपि तदनुयायितया तदेवेच्छति, न शेषान् सतोऽपि शुक्लादीन् वर्णान्, उकं च - " बहुतरउति तयं चिय गमेति संतेवि सेसए मुबई” (वि. २२२१ ) इति शेषकान् शुक्कादिवर्णान् सतोऽपि मुञ्चति न प्रतिपद्यते इति । उक्तो व्यवहारनयः, साम्प्रतमृजुसूत्रनयमाह - पशुप्पण्णग्गाही उज्जुसुओ नयविही मुणेयो । साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, यदिवा प्रति प्रति उत्पन्नं प्रत्युत्पन्नं, भिन्नव्यक्तिस्वामिकमित्यर्थः, तद् गृण्हातीत्येवंशीलः प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिर्ज्ञातव्यः, तत्र ऋजु-प्रगुणम्-अकुटिलमतीतानागतपरकीय वक्रपरित्यागात् वर्त्तमानक्षणविवर्त्ति स्वकीयं च सूत्रयति-निष्टंकितं दर्शयतीति ऋजुसूत्रः, यदिवा ऋजुश्रुत इति शब्दसंस्कारः, For Pivato & Personal Use Only 172~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy