SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ अध्ययनं [–], निर्युक्तिः [७५६], वि० भा०गाथा [ २२१६], भाष्यं [१३७...], मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः श्रीभाव श्यक मल य० वृत्ती उपोद्घाते ॥ ३७४॥ क्षपूर्वकत्वाच्छेपप्रमाणवर्गस्य, ततः सामान्यमेव परमार्थसत् न विशेषा इति सङ्ग्रहः, एष च सामान्यमात्राभ्युपगमपरत्वा-४ संग्रहन्यवन्मिथ्यादृष्टिः सुमतीत एव । हारौ बच्चइ विणिच्छयत्थं वचहारो सङ्घदवेसु ।। ७५३ ।। व्रजति - गच्छति निः- आधिक्येन चयनं चयः, अधिकश्चयो निश्चयः - सामान्यः विगतो निश्चयो विनिश्चयः - सामा | न्याभावः तदर्थे तन्निमित्तं, सामान्याभावायेति भावार्थः, व्यवहारो नयः, क ? - 'सर्वद्रव्येषु सर्वद्रव्यविषये, व्युत्पत्तिश्चैवं व्यवहरणं व्यवहारः, यदिवा विशेषतोऽवहियते - निराक्रियते सामान्यमनेनेति व्यवहारः, विशेषप्रतिपादनपरो व्यवहारनय इत्यर्थः, स ह्येवं विचारयति - सदित्युक्तो हि घटपटाद्यन्यतमो विशेष एव कोऽप्यनिर्दिष्टस्वरूपः प्रतीयते, न सङ्ग्रहनयसंमतं सामान्यं तस्यार्थक्रिया सामर्थ्यविकलतया सकललोकव्यवहारपथातीतत्वात् ततो विशेष एवास्ति न सामान्यं इतश्च न सामान्यम्, उपलब्धिलक्षणप्राप्तस्य तस्यानुपलब्धेः इह यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसदिति व्यवहर्त्तव्यं, यथा क्वचित् केवलभूतलप्रदेशे घटः, न चोपलभ्यते उपलब्धिलक्षणप्राप्तं सत् सङ्ग्रहनयसम्मतं सामान्यमिति स्वभावानुपलब्धिः, अपिच - सामान्यं विशेषेभ्यो व्यतिरिक्तं वा स्यादव्यतिरिक्तं वा ?, यद्याद्यः पक्षस्तर्हि सामान्यस्याभाव एव, विशेषव्यतिरिकस्य सामान्यस्यासम्भवात्, नहि मुकुलितार्द्धमुकुलितादिविशेषविकलं किमपि गगनकुसुममस्तीति परिभावनीयमेतत्, अथाव्यतिरिक्तं ततो विशेषा एव, न सामान्यं, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत् उक्तं च- "अन्नमणन्नं च मयं सामण्णं ? जुइ बिसेसतोऽणनं । तम्मत्तमण्गमहवा नत्थि तयं निविसेसंति ॥ १ ॥” ( वि० २२१६) For Pato & Personal Use Only 171~ ॥३७४॥ bryg
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy