SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ अध्ययनं [–], निर्युक्तिः [७५५], वि० भा०गाथा [ २१९८ ], भाष्यं [१३७...], मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः श्रीभाव श्यक मलय० वृत्ती उपोद्घाते ॥ ३७३ ॥ स्यमक्रियमनवयवं चाभ्युपगम्यते, ततो नोत्पित्सुपदार्थदेशमभिगन्तुमलमिति कथं तत्तत्र वर्त्तते ?, अन्यच्च - सामान्ययुतासु व्यक्तिषु वृत्तिः सामान्यस्य किं सर्वात्मना प्रत्येकं उत एकदेशेन ?, यदि सर्वात्मना तर्हि यात्रत्यो व्यक्तयस्तावन्ति सामान्यानि प्रसक्तानि व्यक्तयश्चानन्ता इति, अथैकदेशेनेति पक्षः, सोऽप्यपेशलः, एकं नित्यं निरवयवमक्रियमित्यभ्युपगमक्षतिप्रसङ्गात्, एकदेशवृत्यभ्युपगमे सावयवत्योपगमात् किञ्च - तेष्वपि देशेषु कथं वर्त्तत इति चिन्त्यं, किं प्रत्येकं सर्वात्मना उत एकदेशेन ?, प्रथमपक्षे पूर्ववत्सामान्यानन्त्यप्रसक्तिः, द्वितीयपक्षे भूयोदेशपरिकल्पना, तत्रापि तेषु वृत्तौ देशान्तरपरिकल्पनमित्यनवस्था, एवं गुणेषु गुणिनोऽवयवेष्ववयविनः क्रियासु कारकस्य मिथो भेदाभ्युपगमे सर्वधा वृत्त्यनुपपत्तिः परिभावनीया । तदेवमेकान्ततः सामान्यविशेषादीनां भेदाभ्युपगमे सर्वमालून विशीर्णमिति तदभ्युपगमपरो नैगमनयो मिथ्यादृष्टिः, ततो जिनवचनानुसारेणैव सामान्यविशेषादिकमभ्युगन्तव्यं, तथा च सति न कश्चिदोषः, तथाहि - यो वस्तूनां समानपरिणामः स सामान्यं, स च सामान्यपरिणामोऽसमानपरिणामाविनाभावी, अन्यथा एकत्वापत्तिितः सामान्यत्वस्यैवायोगात् स चासमानपरिणामो विशेषः, उत्कंच - " वस्तुन एव समानः परिणामो यः स एव सामान्यम् । असमानस्तु विशेषो वस्त्वेकमुभयरूपं तु ॥ १ ॥” ततः सामान्यविशेषौ परस्परं भेदाभेदात्मकाविति न पूर्वोक्तवृत्त्यसम्भवादिदोषावकाशः, अवयवानां च यः कोऽपि विशिष्टः सोऽवयवी, गुणाश्च सहवर्त्तिनः क्रमवर्तिनो वा द्रव्यस्य पर्यायविशेषाः, क्रियाऽपि च कारकस्य परिणामविशेषः, ततः सर्वत्रापि परस्परं मेदाभेदात्मकं तादात्म्यमिति For Pevato & Personal Use Only 169~ नैगमस्वरूपं ॥३७३॥
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy