SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं -], नियुक्ति: [७५५], विभा गाथा [२१९८], भाष्यं [१३७...], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक 4961 विशेषाः पदार्थान्तरेभ्यो बुद्धिवचनविशेषकत्वात् , अन्त्यविशेषवत्, किश्च-'त्रिपदार्थसत्करी सत्ते'ति वचनात् द्रव्य-18 ४ गुणकर्मसु सत्तासमवायात् सत्त्वाभ्युपगमः, स चासमीचीनः विकल्पद्वयानतिक्रमात् , तथाहि-सत्तासमवायात्सत्त्वं द्रव्यादेः दकिं स्वरूपेण सतोऽसतः 1, न तावत्सतः, सत्वे तद्योगकल्पनावैयर्थ्यप्रसङ्गात् , यदि हि स्वरूपतो द्रव्यादीनि सन्ति वर्तन्ते ततः किं तेषां सत्तासमवाययोगपरिकल्पनेन?, वैयादनवस्थामसनाच, तथाहि-यदि स्वरूपतः सरस्वपि सत्तासमवाययोगपरिकल्पना ततः सत्तायामपि सत्तासमवाययोगः परिकल्पनीयः, सत्त्वाविशेषात् , तत्रापीयमेव वार्त्तत्यनवस्था, अथासत इति पक्षः सोऽप्यश्लीलः, असतः खरविषाणस्येव सत्तासमवाययोगासम्भवात् , उकं च-"सत्ताजोगादसतो सओव सत्तं हवेज दबस्स? । असतो न खपुप्फरस व सतो व किं सत्तया कर्ज ॥१॥" (विशेषा. २१९८) एवं द्रव्यत्वगुणत्वकर्मत्वादयोऽपि प्रतिषेध्याः, तत्राप्युकदोपानतिक्रमात् , तथाहि-द्रव्यत्वसामान्ययोगो द्रव्यस्य किं स्वरूपतो। द्रव्यस्य सतः स्यादद्रव्यस्य वा, प्रथमपक्षे द्रव्यत्वसामान्ययोगपरिकल्पनावैयर्थ्यमनवस्थाप्रसङ्गश्च, द्वितीयपक्षे गुणककर्मादिष्वपि द्रव्यत्वसामान्ययोगप्रसक्तिः, स्वतो द्रव्यत्वाभावाविशेषात्, एवं गुणकर्मवयोगप्रतिषेधोऽपि गुणकर्मसु परिभावनीयः । अपिच-गोत्वादिक सामान्य सर्वगतमसर्वगतं वा ?, सर्वगतं चेत्तर्हि प्रत्ययसाङ्कर्यप्रसङ्गः, तथाहिगोत्वादीनि सामान्यानि सर्वगतानि, ततो यथा गोत्वं गोषु गोत्वात् गौॉरिति प्रत्ययस्तथाऽश्वोऽश्व इत्यपि स्यात् । अश्वत्वसामान्यस्यापि तत्र विद्यमानत्वात् , यथा चावेषु अश्वत्वसामान्यादश्वोऽश्व इति प्रत्ययस्तथा गौगौरित्यपि स्यात. गोत्वसामान्यस्यापि तत्र विद्यमानत्वात् न चैतदस्ति, तस्मानायं पक्षःश्रेयान् , अथासर्वगतमिति पक्षो, ननु तत्सामाभा.स३ ACOCCCCCXCortex दीप k549- अनुक्रम 9.5M ~168
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy