SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ अध्ययनं [–], निर्युक्तिः [७५४], वि० भा०गाथा [ २१६० ], भाष्यं [ १३७...], मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः सर्वत्र स्थात्पदप्रयोगानुसरणं तर्हि मूलत एवापागमदवधारणविधिः परस्परं विरोधात्, तथाहि -अवधारणमन्यनिषेधपरं स्याद्वादस्वन्यसंग्रहणशील इति, तदयुक्त, सम्यक् तत्त्वापरिज्ञानात्, स्वात्पदप्रयोगो हि विवक्षितवस्त्वनुयायिधर्मान्तरसग्रहणशीलः, अवधारणविधिस्तु तत्तदाशङ्कितान्ययोगव्यवच्छेदादिफलः, तथाहि - ज्ञानदर्शनवीर्यसुखोपेतः किं जीवो भवति | किंवा नेत्याशङ्कायां प्रयुज्यते - स्याज्जीव एव, अत्र जीवशब्देन प्राणधारणनिबन्धनं जीवशब्दवाच्यत्वमभिधीयते, एवकारेण | यदाशङ्कितं परेण जीवशब्दवाच्यत्वं तस्य निषेधः स्यात्पदप्रयोगातु ये ज्ञानदर्शनसुखादिरूपा असाधारणा ये चामूर्चस्वासङ्ख्यातप्रदेशसूक्ष्मत्वलक्षणा धर्मा धर्म्माधर्म्मगगनास्तिकायपुद्गलैः साधारणाः येऽपि च सत्त्वप्रमेयत्वधर्मित्वगुणित्वादयः सर्वपदार्थैः साधारणास्ते सर्वेऽपि प्रतीयन्ते, यदा तु ज्ञानदर्शनादिलक्षणो जीवः किंवाऽन्यलक्षण इत्याशङ्का सदैवमवधारणविधिः स्यात् ज्ञानादिलक्षण एव जीवः, अत्र जीवशब्देन जीवशब्दवाच्यतामात्रं प्रतीयते, ज्ञानादिलक्षण एवेत्यन्यलक्षणव्युदासः, स्यात्पदप्रयोगात्तु साधारणासाधारणधर्म्मपरिग्रहः, यदा तु जगति जीवोऽस्ति किं वा नेत्यसम्भवाशङ्का तदैवमवधारणं - स्यादस्त्येव जीवः, अत्रापि जीवदाब्देन जीवशब्दवाच्यताऽधिगतिः, स्यात्पदप्रयोगात् साधारणासाधारणधर्म्मपरिग्रहः, अस्त्येवेत्यवधारणादभावाशङ्काव्यवच्छेदः, एवमन्यत्रापि साक्षात् गम्यमानतया वा स्यात्पदप्रयोगपुरःसरं यथा| योगमवधारणविधिः सम्यक्प्रवचनार्थं जानानेन प्रयोक्तव्यः, अवधारणाभावे तु जीवादिवस्तुतत्त्वव्यवस्थाविलोपप्रसङ्गः, तथाहि - यद्यन्यव्यवच्छेदेन ज्ञानदर्शनोपयोगलक्षणो जीव एवेति नावधार्यते तर्हि अजीवोऽपि तलक्षणः स्यादिति जीवाजीवव्यवस्थाविलोपः, तथा यदि ज्ञानदर्शनोपयोगलक्षण एव जीव इत्ययोगव्यवच्छेदो नाभ्युपगम्येत ततोऽन्यत्किम For Pivate & Personal Use Only 162~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy