SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ३ अध्ययनं [-], निर्युक्ति: [ ७४७-७४९], वि० भा० गाथा [-], भाष्यं [ १३७...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः आवश्यके श्रीमलयसमवसरणे ॥ ३६६ ॥ तथा चोतं परममुनिभिः- " संजमे अणण्यफले तवे वोदाणफले" अणण्हवः-अनाश्रवः, वोदाणं- कर्मनिर्जरा, कम्मंविवेकस्य च प्रयोजनमशरीरतैव च ॥ साम्प्रतं विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाह - कम्मविवेगो असरीरयाइ असरीरयाऽणवाहाए । होअणवाहनिमित्तं अवेअणु अणाउलो निरुओ ॥ ७४७ ॥ निरुअत्ताए अपलो अयलत्ताए अ सासओ होइ । सासयभावमुवगओ अवायाहं सुहं लहइ ॥ ७४८ ॥ कर्म्मविवेकः- कर्म्मपृथग्भावः अशरीरतायाः कारणम्, अशरीरता 'अणात्राहाए' इति अनावाधायाः कारणं भवति, 'अनावाधानिमित्तं' अनावाधाकार्य, निमित्तशब्दः कार्यवाचकः, लोके च वक्तारो भवन्ति-अनेन निमित्तेन-अनेन कार णेन मयेदमारब्धं, अनेन कार्येणेत्यर्थः, ततश्च भवत्यनाबाधा कार्यमवेदनः - वेदनारहितो, जीव इति गम्यते स चावेदनत्वादनाकुल:- अविह्वलः, अनाकुलत्वाच्च नीरुय् भवति, ततः स जीवो नीरुक्तया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतोऽब्याबाधं सुखं लभते, इत्थं पारम्पर्येण अव्यावाधसुखार्थं सामायिकश्रवणमिति गौतमादयः शृण्वन्ति ॥ गतं कारणद्वारम् अधुना प्रत्ययद्वारमाह पचयनिक्खेव खलु दबंमी तत्तमासगाईओ । भावंमि ओहिमाई तिविहो पमयं तु भावेणं ॥ ७४९ ॥ प्रत्याययतीति प्रत्ययः - अन्तर्भूतण्यर्थादत्प्रत्ययः प्रत्ययस्तस्य निक्षेपो-न्यासः प्रत्ययनिक्षेपः, खलुशब्दोऽनन्तरोककारणनिक्षेपसाम्यप्रदर्शनार्थः, ततश्च नामादिचतुर्विधः प्रत्ययनिक्षेपः, तत्र नामस्थापने सुगमे, 'द्रव्ये' द्रव्यविषयो ज्ञशरीरभव्यशरीरव्यतिरिक्तः प्रत्ययः, तप्तमाषकादिः, आदिशब्दात् घटादिपरिग्रहः, द्रव्यं च तत् प्रत्याय्यप्रतीतिहेतुत्वाद् For Pavato & Personal Use Only ~155~ सामायिक भाषण श्रवण कारणानि ॥ १६६ ॥
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy