SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ अध्ययनं [-], निर्युक्ति: [ ७४५- ७४६ ], वि० भा० गाथा [-], भाष्यं [ १३७...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः Jan Education International गाथाद्वयस्यापि व्याख्या प्राग्वत्, इत्थं तीर्थकरस्य सामायिक भाषणकारणमभिधायाधुना गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणं प्रतिपादयन्नाह - गोअममाई सामाइयं तु किं कारणं निसार्मेति ? | नाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥ ७४५ ॥ गौतमादयो गणधराः 'किं कारणं' किं निमित्तं किं प्रयोजनं सामायिकं निशमयन्ति-शृण्वन्ति १, उच्यते- 'नाणस्स'त्ति प्राकृतत्वाच्चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय ज्ञानार्थ, तादर्थे चतुर्थी, तेषां हि भगवद्बदन विनिर्गत सामायिकशब्दान् श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यते, ततो ज्ञानार्थं शृण्वन्ति तत्तु ज्ञानं सुन्दरमङ्गलभावानां - शुभेतरपदार्थानां 'उवलद्धी 'ति उपब्धये - उपलब्धिनिमित्तं सा च सुन्दरमल भावोपलब्धिः प्रवृत्तिनिवृत्योः कारणम् ॥ आह च होइ पवितिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो अ तहा कारणमसरीरया चैव ॥ ७४६॥ शुभेतरभावपरिज्ञानाद्भवतः प्रवृत्तिनिवृत्ती, शुभेषु प्रवृत्तिर्भवति इतरेषु निवृत्तिरिति भावः ते च प्रवृत्तिनिवृत्ती संयमतपसोः कारणं, प्रवृत्तिस्तपसः कारणं निवृत्तिः संयमस्येति हृदयं तत्र निवृत्तिकारणकत्वेऽपि संयमस्य प्रागुपादानेन पूर्वकर्मागमनिरोधेऽस्य कारणप्राधान्यख्यापनार्थ, तत्पूर्वकं च वस्तुतः सफलं तप इति ज्ञापनार्थे च संयमतपः कारणभूतप्रवृत्तिनिवृत्त्योस्तु प्रयोजनोपन्यासः संयमे सत्यपि तपसि प्रवृत्तिः कार्येत्यमुनांशेन तपसः प्राधान्यख्यापनार्थः इत्यलं प्र सङ्गेन, तयोश्च संयमतपसोः कारणं निमित्तं प्रयोजनं यथासङ्ख्यं 'पावकम्म अग्गहणं'ति पापकर्माग्रहणं तथा कर्मविवेकश्च, For Pevato & Personal Use Only ~154~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy