________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [-], निर्युक्तिः [ ७३८ ], वि० भा०गाथा [-], भाष्यं [ १३७...], मूलं [- / गाथा-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
आवश्यके श्रीमलय
समवसरणे
॥३६४॥
कारणं, तद्व्यतिरेकेण पटानुत्पत्तेः, यथा तन्तुभिर्विना न भवति पटस्तथा तद्गतातानादिचेष्टाव्यतिरेकेणापि न भवति, तस्याश्च चेष्टाया वेमादि कारणं, ततो निमित्तस्येदं नैमित्तं तदेव कारणं नैमित्तकारणमिति ।
समवाइअसमवाई छविह कत्ता य करण कम्मं च । तत्तो अ संपयाणाऽपयाण तह सन्निहाणे अ ॥ ७३८ ॥
सम् - एकीभावेऽवशब्दः - अपृथक्त्वे अयू गतौ इण् गतौ वा ततश्च एकीभावेनापृथग्गमनं समवायः-संश्लेषः, स येषां विद्यते ते समवायिनः तन्तवो, यस्मात्तेषु पटः समवैतीति, समवायिनश्च ते कारणं च समवायिकारणं, तन्तुसंयोगास्तु कारण|रूपद्रव्यान्तरधर्म्मत्वेन पटाख्यकार्यद्रव्यान्तरस्य दूरवर्तित्वादसमवायिनः त एव कारणं असमवायिकारणं, आह-तद्रव्या| दिप्रकारत्रयेऽपि यथोक्तप्रकारेणार्थस्याभेद एव ततः किं भेदेनोपन्यासः १, नैष दोषः संज्ञाभेदेन तन्त्रान्तराभ्युपगमप्रदर्शनफलत्वादस्य, अथवा पद्विधं कारणं, अनुस्वारलोपोऽत्र द्रष्टव्यः करोतीति कारणमिति व्युत्पत्तेः, स्वेन व्यापारेण यत् कार्येषूपयुज्यते तत् कारणं, तच्च षड्विधं-पट्प्रकारं कथमित्याह- कर्त्ता च कारणं, तस्य कार्येण स्वातन्त्र्येणोपयोगात्, तमन्तरेण विवक्षित कार्यानुपपत्तेः, अभीष्टकारणं च तत्, ततश्च घटोत्पत्ती कुलालः कारणमिति, तथा करणं - मृत्पिण्डदण्डसूत्रादिकं घटस्य कारणं, साधकतमत्वात्, तथा क्रियते, निर्वर्त्यते यत् तत्कर्म्म- क्रियाफलमित्यर्थः, उक्तं च- "निर्व वा विकार्ये वा प्राप्यं वा यत्क्रियाफलम् । तद् दृष्टादृष्टसंस्कारं, कर्म्म कर्त्तुर्यदीप्सितम् ॥१॥" तदपि च कारणं, आह-तत्कधमेतदलब्धात्मलाभं तदा कारणमिति, उच्यते, कार्यनिर्वर्त्तनक्रियाविषयतया तस्योपचारात् कारणता, मुख्यवृत्त्या चासौ कार्यगुणमपेक्ष्य कर्म्मकारणं, तथा सम्प्रदानं तस्य कर्म्मणाऽभिप्रेतत्वात्, तमन्तरेण तस्याभावात्, तथा अपादानं कारणं,
For Pato & Personal Use Only
~151~
कारणद्वारे द्विविधषधिकारणानि
॥ ३६४ ॥