________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३
अध्ययनं -1, नियुक्ति: [७३७], विभा गाथा [-], भाष्यं [१३७...], मूलं /-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
सकेषु वर्तमानः प्राणी तृणज्वालोपमवेदानुभवकाले वेदपुरुषः स्यादिरप्युच्यते, तथा धर्मार्जनन्यापारपरः साधुर्धर्मपुरुषा,
अर्थार्जनब्यापारपरस्त्वर्थपुरुषः मम्मणवणिग्वत्, भोगपुरुषः सम्प्राप्यसमस्तविषयमुखभोगोपभोगसमर्थश्चक्रवर्तिवत् , हा भावे यत्ति भावपुरुषः, चशब्दो चामाद्यनुक्तभेदसमुच्चयार्थः, भावपुरिसोउ जीवो भावे'ति पूर-शरीरं पुरि शेते इति निरुक्तवशात् भावपुरुषो जीवः, 'भाव'त्ति भावद्वारे निरूप्यमाणे, भावचिन्तायामिति भावः, अथवा भावे इति भावनिर्गमप्ररूपणायामधिकृतायां, किं-पगयं तु भावेणं'ति प्रकृतम्-उपयोगस्तु भावेन पदैकदेशे पदसमुदायोपचारात भावपुरुषेण शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः, तुशब्दावेदपुरुषेण च गणधरेण, यतोऽर्थतस्तीर्थकराद्विनिर्गतं सूत्रतो गणघरेभ्य इति, एवमन्येऽपि यथासम्भवं पुरुषा आयोज्याःगतं पुरुषद्वारम् । साम्प्रतं कारणद्वारं व्याचिख्यासुराह| निक्खेषु कारणम्मी चउधिहो दुविह होइ दधम्मि । तद्दवमन्नदधे अहवावि निमित्तनेमित्ती॥ ७३७ ।। | करोति-निवर्तयति कार्यमिति कारणं तस्मिन् कारणे कारणविषयो निक्षेपो-न्यासः चतुर्विधः-चतुर्भेदः, तद्यथा-नाम|कारणं स्थापनाकारणं द्रव्यकारणं भावकारणं च, तत्र नामस्थापने सुज्ञाने, द्रव्यकारणं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्विधा, तथा च द्विविधो भवति द्रव्ये, निक्षेप इति वर्तते, किमुक्तं भवति?-ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यकारणविषयो निक्षेपो द्विधेति, तदेव द्वैविध्यं दर्शयति-तद्दवमन्नदवे' इति तद्रव्यकारणमन्यद्रव्यकारणं च, तस्यैव पटादेः द्रव्य-तन्त्वादि तदेव कारणं तव्यकारणं, वेमाद्यन्यद्रव्यकारणं, अथवा अन्यथा व्यतिरिक्तकारणद्वैविध्यं-'निमित्तनैमित्तं' निमित्तकारणं नैमित्तिकारणं चेत्यर्थः, अपिशब्दादन्यथापि कारणनानाता तां वक्ष्यामि, तत्र पटस्य निमित्तं तन्तवस्त एव कारणं निमित्त
दीप
अनुक्रम
~150