________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [-], नियुक्ति: [७३४-७३५], विभा गाथा [-], भाष्यं [१३७...], मूलं /-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
वइसाहसुद्धहकारसीइ पुठवण्हदेसकालम्मि । महसेणवणुजाणे अणंतर परंपर सेसं ॥ ७३४॥ वैशाखे मासि शुद्धे-शुक्लपक्षे एकादश्यां पूर्वाहदेशकाले, प्रथमपौरुष्यामित्यर्थः, कालस्यान्तरङ्गत्वख्यापनार्थमेवं| प्रश्नम्यत्ययेन निर्देशः, महासेनवनोद्याने क्षेत्रेऽनन्तरनिर्गमः सामायिकस्य, 'परंपर सेसं'ति शेष-गुणशिलकायुद्यानादि त्रिजातमधिकृत्य परम्परं निर्गमनं सामायिकस्य, उकं च भाष्यकृता-"खेत्ते महसेणवणोक्लक्खियं जत्थ निग्गयं पुर्व ।।
सामाइयमन्नेसु उ परंपरविणिग्गमो तस्स ॥१॥" गतं मूलद्वारगाधाद्वयप्रतिबद्धं क्षेत्रद्वारम्, इह च क्षेत्रकालपुरुषद्वाराणां निर्गमाङ्गत्व प्राक्, सतश्च निर्गमद्वारव्याचिख्यासया “नाम ठवणादविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्सा | निक्खेवो छविहो होइ ॥१॥" ति येयं गाथोपन्यस्ता तस्यां क्षेत्रकालनिर्गमावुक्ती, अथ भावनिर्गमप्रतिपादनार्थमाहखइयम्मि वहमाणस्स निग्गयं भगवो जिर्णिदस्स । भावे खओवसमिअम्मि वहमाणेहिं तं गहि ॥ १३५ ॥
शायिके भावे वर्तमानस्य भगवतो जिनेन्द्रस्य-श्रीमन्महावीरस्य सकाशाद् विनिर्गतं सामायिकं, भावशब्द उभयत्रापि सम्बध्यते, भावे क्षायोपशमिके वर्तमानस्तत्सामयिकमन्यच्च श्रुतं गृहीतं, गणधरादिभिरिति गम्यते, तत्र भगवता गौतमस्वामिना निपथात्रयेण चतुर्दश पूर्वाणि गृहीतानि, प्रणिपत्य पृच्छा निषद्योच्यते, भगवान् वर्द्धमानस्वाम्युक्तवान्-'अप्पन्नेहवा विगमेइ वा धुवेइ वा उत्पन्न इति-उत्पत्तिस्वभावः विगम इति-विनाशधर्मा इति भावः,व इति-स्थितिधा, एता एव तिम्रो गणभृतां निषद्याः, तथाहि-एतासामेव सकाशात् उत्पादव्ययध्रौव्ययुकं सदिति गणभृतां प्रतीतिरुपजायते, अन्वया सत्ताया अनुपपत्तेरिति, वतस्ते पूर्वनवभावितमतयो द्वादशाङ्गमुपरचयन्ति, ततो भयवं अणुण्ण मणसी करेंति,
दीप
अनुक्रम
... अत्र मूल संपादने यत् गाथा-क्रम || १३५ || मुद्रितं तत् मुद्रण-स्खलना मात्र, इह गाथा-क्रम || ७३५ || एव वर्तते ।
~148