________________
आगम
(४०)
[भाग-5] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [-1, नियुक्ति: [७३०], वि०भा गाथा [२०६८,२०७०], भाष्यं [१३७...], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
%
%
प्रत सूत्रांक
-10-
स्वाध्यायकरणकाला, अकाले-अप्रस्तावे मरणं कुर्वतेति, तदनेन कालशब्दस्य मरणवाचित्वमुपदर्शितं ॥ सम्पति प्रमाणहै काला प्रतिपाद्यः, तत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वती विशिष्टव्यवहारहेतुरहर्निशारूपः प्रमाणकाला, तथा चाह
भाष्यकृत्-"अद्धाकालविसेसो पत्थयमाणं व माणुसे खेत्ते । सो संववहारत्थं पमाणकालो अहोरत्तं ॥१॥ (२०६८)" अत्र 'पत्थयमाणं वत्ति यथा सामान्येन मानावयवभूतं प्रस्थकरूपं मानं संव्यवहाराय कल्प्यते तथाऽहर्निशारूपः प्रमाणकालोऽद्धाकालस्यैव विशेषः सन पृथक् संव्यवहाराय प्ररूप्यते इति । अमुमेव प्रमाणकालं भेदत आह|दुविहो पमाणकालो दिवसपमाणंच होइ राई अ । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ।। ७३०॥ | प्रमीयतेऽनेन जीवादीनामायुप्रभूतिरिति प्रमाणं तदेव कालः प्रमाणकालः,स द्विविधः, दिवसप्रमाणं भवति रात्रिश्च-दिव-11 |सप्रमाणकालो रात्रिश्च, चतुष्पौरुषीको दिवसो रात्रिश्च चतुष्पौरुषी, पौरुषीप्रमाणं चानियतं, दिवसनिशाहानिवृद्धिभावात् , तत्र यदा सर्वजघन्यो द्वादशमुहूत्तों दिवसस्तदा सर्वोत्कृष्टाऽष्टादशमुहूर्त्ता रात्रिः, तदा च दिवसस्य पौरुषी मुहूर्त्तत्रयमाना| रात्रेश्च अर्द्धपञ्चममुहूर्तप्रमिता, यदा तु सर्वोत्कृष्टोऽष्टादशमुहूर्तो दिवसस्तदा सर्वजघन्या द्वादशमुहूर्ता रात्रिः, तदा च पौरुषी दिवसस्थाईपञ्चममुहूर्त्तमाना रात्रेच मुहूर्तत्रयमाना, एवं दिवसस्य रात्रेर्वा पौरुष्यत्रयो मुहूर्ता जघन्यं मान | अर्द्धपञ्चमा उत्कृष्ट, उक्तं च-"पोरिसिमाणमनिययं दिवसनिसावुद्धिहाणिभावातो । हीणं तिन्नि मुहुत्तस्सद्धपञ्चमा माणमुकोसं ॥१॥ (वि.२०७०)" सर्वजघन्यश्च दिवसः सर्वोत्कृष्टा च रात्रिर्दक्षिणायनचरमदिवसे, सर्वोत्कृष्टो दिवसः सर्वज-18 पन्या च रात्रिरुचरायने, प्रथमदिवसादारभ्य प्रतिचरमवासरशेषेषु तु दिवसेषु दक्षिणायने प्रथमदिवसादारभ्य प्रतिदिवस,
SSSC-
446090094460
दीप
%
अनुक्रम
बा.९६१
JanEttaraction
Janatitraryaru
अत्र 'प्रमाण-कालस्य वर्णनं क्रियते
~144