SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [-], नियुक्ति: [६८९-६९१], विभागाथा H], भाष्यं [१३३], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक । घायणपडिसुणणाए उवएसे सुत्तअथकहणाए । अवितहमेअंति तहा पडिसुणणाए अ तहकारो॥३८९॥। वाचना-सूत्रदानलक्षणा तस्याः प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायां तथाकारी कार्यः, एतदुकं भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णता तथाकारःप्रयोक्तव्यः, तथा सामान्येनोपदेशे चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा सूत्रार्थकधनायां, व्याख्याने इत्यर्थः, किं -तथाकारः कार्यः, तथाकार इति कोऽर्थ | इत्याह-अवितथमेतत् यद् ब्रूथ यूयमिति, न केवलममीध्वेवार्थेषु तथाकारः प्रयोक्तव्यः, किन्तु 'तहा पडिसुणणाए' इति प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायां च तथाकारः कार्यः, चशब्दलोपोऽत्र द्रष्टव्यः ॥ साम्प्रतं | स्वस्थाने स्वस्थाने इच्छाकारादिप्रयोक्तुः फलं प्रतिपादयतिजस्स य इच्छाकारो मिच्छाकारो अ परिचिआ दोवि । तइओ अ तहकारो न दुल्लहा सुग्गई तस्स ॥३९०॥ यस्येच्छाकारो मिथ्याकारश्च द्वावपि परिचितौ तृतीयस्तु तथाकारः तस्य सुगतिर्न दुर्लभा । साम्प्रतनावश्यकीनपेधि*कीद्वारयावयवाथेमभिधित्सुः पातनिकागाथामाह आवस्सयं च निन्तो जं च अइन्तो निसीहि कुणइ । एअं इच्छं नाउं गणिवर ! तुझंतिए निउणं ॥३९॥ द्रा आवश्यकी पूर्वोक्तशदार्था तां आवश्यकीं 'निंतो' निर्गच्छन् यां च 'अइंतो' आगच्छन् , प्रविशन् इत्यर्थः, नैपे-४ [धिकी करोति, एतत्-आवश्यकीनपैधिकीरूपं द्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातुं हे गणिवर ! युष्मदन्तिके निपुण-सूक्ष्म एतज्ज्ञातुमिच्छामीति क्रियाविशेषणं ॥ एवं शिष्येणोके सत्याहाचार्यः दीप अनुक्रम ~118~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy