________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
[-]
[भाग-4] "आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २
अध्ययनं [-], निर्युक्ति: [१४१] वि० भा० गाथा [१५१५] भाष्यं [-] मूलं [-- / गाथा-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः
उपोद्घातनिर्युक्तिः
॥ १५० ॥
Jan Education Internat
"संगहवहारनयवतक्षया इत्थी इत्थि निद्दिसह इत्यिनिदेसो, इत्थी पुरिसं निहिसइ पुरिसनिद्देसो, इत्थी नपुंसगं निहिसइ नपुंसगनिद्देसो, एवं पुरिसनपुंसग़ाणंपि भाणियवं,” अथवा सामायिकं नाम सावद्ययोगविरमणरूपं तच्च सामायिकवतां सत्त्वानां स्त्रीलिङ्गानां पुंलिङ्गानां नपुंसकलिङ्गानां च परिणामानन्यदिति तस्य ख्यादिरूपतेति वाच्यवशेन त्रिलिङ्गताऽपि सामायिकस्य सङ्ग्रहव्यवहारनयमतेन द्रष्टव्या, तथा 'निद्देसगमुज्जुसुतो' इति, निर्देशको चक्का तमङ्गीकृत्य सामायिक निर्देश मृजुसूत्रो मन्यते, तथाहि स एवमभिधत्ते वचनं वकुरघीनं, तद्भावभावित्वात् ततो यदेव वर्लिङ्गं तदेव वचनस्यापीति, यदा पुरुषो निर्देष्टा तदा सामायिकस्य पुंलिङ्गता यदा स्त्री तदा स्त्रीलिङ्गता, एवं नपुंसकेऽपि द्रष्टव्यम् उक्तं च- "उज्जुसुतो निसगवसेण सामाइयं विणिद्दिसह । वयणं वतुरहीण मित्यादि, 'उभयसरिच्छं सस्स ॥१॥" ( वि. १५१५) इति, उभयमिह निर्देश्यं निर्देशकं च वस्त्वभिधीयते, 'सदृश' मिति समानलिङ्गम् उभयं च तत्सदर्श च उभयसदृशं तदङ्गीकृत्य शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, किमुक्तं भवति १-निर्देश्यं निर्देशकं च वस्तु परस्परं समानलिङ्गमेवाङ्गीकृत्य शब्दनयो निर्देशमभिमन्यते नान्यथेति, इयमत्र भावना - उपयुक्तो हि निर्देश्यादभिन्न एव भवति, तदुपयोगानन्यत्वात्, यथा अभ्युपयोगादनन्यो माणवकोऽग्निः, ततो यदा पुमान् पुमांसमभिधत्ते तदा | पुंनिर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एव, नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव यदा तु पुमान् स्त्रियमभिधत्ते तदा स खयुपयोगानन्यत्वात् खीरूप एवेति निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र संयोज्यम्, असमानलिङ्गनिर्देशस्त्ववस्त्वेव, यथा पुमान् नपुंसकं स्त्रियं चाहेति, कुत इति चेत्, उच्यते, इह
For Peace & Personal Use Ony
~31~
निर्देशे
नयाः
॥ १५० ॥
sanelibrary.org