SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २ अध्ययनं [-] निर्युक्तिः [१४२ ], वि० भा० गाथा [१५२३], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः भाष्यं [-] मूलं [- /गाथा ] मा.सू. २६ Jan Education Interna पुंसो नपुंसकं खियं वा प्रतिपादयतो मपुंसकोपयोगः ख्युपयोगो वा ततो मित्रो वा स्यादमिनो वा यदि भिन्नस्तर्हि तस्यासाविति सम्बन्धानुपपत्तिः, तदनुपपत्तौ चोपयोगशून्यत्वात्पाषाणस्येव तस्य वचनप्रवृत्त्यसम्भवः, तथा च प्रत्यक्षविरोधः, अधाभिन्नः स तर्हि तदात्मक एव, तथाहि — यद्यस्मादभिनं तत्तन्मयमेव, यथा जीवश्चेतनामयः पुमानपि च नपुंसकमभिदधानो नपुंसकोपयोगानन्यः, स्त्रियमभिदधानः स्युपयोगानन्य इति तन्मयः, ततः समानलिङ्गस्यैव निर्देशो न | विसदृशलिङ्गस्य, उक्तं च- “सद्दो समाणलिंगं निद्देसं भणति विसरिसमवत्युं । उवउस्तो निद्दिद्वा निद्देसातो जतोऽनन्नो ॥ १ ॥” | ( वि. १५२३) एवमिहापि सामायिकस्यार्थरूपस्य रूढितो नपुंसकत्वात् स्त्रियाः पुरुषस्य नपुंसकस्य वा सामायिकं प्रतिपादयतस्तदुपयोगानन्यत्वान्नपुंसकरूपतैवेति सामायिकमिति नपुंसकनिर्देश एवेति गाथासङ्क्षेपार्थो, व्यासार्थस्तु भाष्यादवसातव्यः, सर्वनयमतान्यपि चामूनि पृथक् पृथग्विपरीतविषयत्वान्न प्रमाणं, समुदितानि तु समस्तान्तर्बाह्यनिमित्तसा|मग्रीसापेक्षत्वात्प्रमाणमित्यलं विस्तरेण, मन्दावबोधमात्र फलत्वात् प्रस्तुतप्रयासस्य ॥ सम्प्रति निर्गमद्वारप्रतिपादनार्थमाहनामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्सा निक्स्वेवो छविहो होइ ॥ १४२ ॥ नामस्थापने सुप्रतीते, द्रव्यनिर्गमोऽपि द्विधा-आगमतो नोआगमतश्च तत्रागमतः पूर्ववत्, नोआगमतस्त्रिविधोज्ञशरीर भव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र ज्ञशरीरभव्यशरीरे प्राग्वत्, तद्व्यतिरिक्कोऽनेकधा, तद्यथा-द्रव्याद् द्रव्यस्य वा विनिर्गमो द्रव्यविनिर्गमः, तत्र द्रव्यात् सचित्तादचित्तान्मिश्राद्वा, द्रव्यस्य च ततः सचित्तादेः प्रत्येकं सचित्तस्याचित्तस्य मिश्रस्य वा, तत्र सचित्तात्सचित्तस्य यथः पृथिव्या अङ्कुरस्य, सचित्तान्मिश्रस्य यथा भूमेः पतङ्गस्य, सचित्तादचित्तस्य ... अत्र 'निर्गम' द्वार प्रदर्शयते For Pevote & Personal Use Ony ~32~ sanlibrary.org
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy