SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-4] "आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २ अध्ययनं [-], निर्युक्ति: [१४१] वि० भा० गाथा [१५११] भाष्यं [-] मूलं [-- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः Jan Education International उच्चारिते निर्देशस्याभिधेयानन्यत्व विवक्षायामयं घट इति व्यपदेशः प्रवर्त्तते, निर्देशकानन्यत्वविवक्षायामयं देवदत्त इति, तथा च देवदत्ते कथञ्चित्पथः परिभ्रष्टे इतस्ततो निभाल्यमाने तच्छब्दं श्रुत्वा ठोको वदति-अयं देवदत्त इति, अभिधेयानन्यत्वविवक्षायां पुरुषनिर्देशः, निर्देशकानन्यत्वविवक्षायां स्त्रीनिर्देशः, अथ स्त्री नपुंसकं निर्द्दिशति तदाऽत्रापि यथाविवक्षितं निर्देश इति नपुंसकनिर्देशः स्त्रीनिर्देशो वा एवं पुरुषे नपुंसके च निर्देष्टरि भावनीयम्, आह च चूर्णिकृत् -" इत्थी इत्थिं निद्दिसइ इत्थिनि देसो, इत्थी पुरिसं निद्दिसइ इत्थिनिद्देसो य पुरिसनिद्देसो य, इत्थी नपुंसगं निद्दिसइ इस्थिनिद्देसो अ नपुंसंगनिद्देसो अ, एवमेव पुरिसनपुंसगाणंपि संजोगो” इति, एवमिहापि निर्देष्टुः त्रिलिङ्गस्यापि सम्भवादनन्यत्वविवक्षायां त्रिलिङ्गताऽपि सामायिकस्य प्रतिपत्तव्येति, आह- द्विविधमपि नैगमनय इत्येतावत्युक्ते निर्देश्यवशान्निर्देशकवशाच द्विविधं निर्देशमिच्छतीति कुतोऽवसीयते ?, उच्यते, वक्ष्यति - 'निद्दिहं संगहो य ववहारों' इति, ततोऽर्थादत्रावसीयते निर्देश्यवशान्निर्देशकवशाच्च निर्देशस्य द्वैविध्यमिति, 'निद्दिवं संगहो य ववहारो' इति निर्दिष्टं वस्त्वङ्गीकृत्य सङ्ग्रहो व्यवहारश्च चशब्दस्य व्यवहितः सम्बन्धः, निर्देशमिच्छतीति वाक्यशेषः, इयमत्र भावना-इह वचनमर्थप्रकाशकमेवोपजायते, यथा प्रदीपः, ततो यथा प्रदीपः प्रकाश्यं प्रकाशयन्नेवात्मरूपं प्रतिपद्यमानः प्रकाश्यादात्मलाभं लभते इति | व्यपदिश्यते, तथा वचनमप्यर्थं प्रतिपादयदेवात्मरूपं प्रतिपद्यमानमर्थादात्मलाभं लभते इति व्यवहियते, अर्थश्च सावद्ययोगविरमणरूपो नपुंसकतया प्रसिद्ध इति सामायिकस्य नपुंसकलिङ्गतामेव सहव्यवहारावभ्युपगच्छतः उक्तं च - " अत्था| तोश्चिय वयणं लहइ सरूवं जहा पदीवोष। तो संगहववहारा भणति निद्दिद्ववसगं तं ॥ १ ॥ ( वि. १५११ ) चूर्णिकारोऽप्याह For Peace & Personal Use Only ~30~
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy