________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
_अध्ययनं [-], निर्युक्ति: [ १३-१५], भाष्यं [-] वि० भा० गाथा [-], मूलं [- /गाथा - ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
तथा अन्वय धर्मान्वेषणं मार्गणा, व्यतिरेक धर्मालोचनं गवेषणा, तथा संज्ञानं संज्ञा-व्यञ्जनार्थावग्रहोचरकालो मतिविशेषः, स्मरणं स्मृतिः- पूर्वानुभूतार्थालम्बनप्रत्ययः, मननं मतिः कथञ्चिदर्य परिच्छित्तावपि सूक्ष्मधर्मपर्यालोचनरूपा बुद्धिः, तथा प्रज्ञानं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिः, सर्वमिदमामिनिवोधिकं, मतिज्ञानमित्यर्थः एवं किञ्चिद्भेदाद्भेदः प्रदर्शितः, परमार्थतस्तु सर्व एवैते मतिवाचकाः पर्यायशब्दाः । तदेवं तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्याय सम्प्रति नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणार्थमाह
"संतपयपवणया दपमाणं च खित्तफुसणा य । कालो अ अंतर भागो भावे अप्पावहं चैव ॥ १३ ॥ गइ इंदिए य काए जोए वेए कसायलेसासु । सम्मत्तनाणदंसण संजय उवयोग आहारे ॥ १४ ॥ भाग-परित - पत्त-सुम सन्नी य होइ भवचरिमे। आभिणिबोहियनाणं मग्गिजइ एस ठाणेसु ॥ १५ ॥ सच्च तत्पदं च सत्पदं तस्य प्ररूपणं - गत्यादिद्वारेषु विचारणं सत्पदप्ररूपणं सत्पदप्ररूपणस्य भावः-सत्पदप्ररूपणशब्दस्य प्रवृत्तिनिमित्तं सत्पदप्ररूपणता, तदेव सत्पदप्ररूपणमिति भावः, किमुक्तं भवति १- मतिज्ञानमिति यत्सत्पदं तस्य गत्या. दिभिर्द्वारैः प्ररूपणमिति, अथवा सद्विषयं पदं सत्पदं तदेव मतिज्ञानमितिरूपं पदं, मतिज्ञानस्य सत्त्वात् प्रक्रान्तत्वाच्च, शेषं पूर्ववत्, नन्वसत्पदस्यापि किं प्ररूपणा क्रियते येनेदमुच्यते- 'सत्पदप्ररूपणे 'ति १, उच्यते, क्रियते खलु खरविषाणादेरप्य सत्पदस्य प्ररूपणा, ततः सङ्ग्रहणमिति, अथवा सन्ति च तानि पदानि च स्थानानि सत्पदानि गत्यादीनि तैः प्ररूपणं मतेः सत्पदप्ररूपणं, शेषं पूर्ववत्, द्रव्यप्रमाणं जीवप्रमाणमिति वक्तव्यं, किमुक्तं भवति । एकस्मिन् समये
••• सत्पदप्ररूपणा आदि द्वाराणाम् वर्णनं
For Private & Forsonal Use Only
~99~