SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) १ अध्ययनं -1, नियुक्ति: [१], भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] | पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक दीप याणि, नचायमसिद्धो हेतुः, यतो नाम द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि 'निर्वृत्त्युपकरणे द्रव्येन्द्रिय (त० अ०२ सू०१७) इति वचनात्, निवृत्त्युपकरणे च पुद्गलमये, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानवबोधरूपतया चैतन्य प्रति धर्मित्वायोगात्, धर्मानुरूपो हि सर्वत्रापि धर्मी यथा काठिन्य प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधम्मिभावो भवेत् ततः काठिन्यजलयोरपि स भवेत्, न च भवति, तस्मादचेतनाः पुद्गलाः, उकं च-"बोहसहावममुत्तं विसयपरिच्छेवगं च चेयणं । विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥१॥ ता धम्मधम्मिभावो कहमेएर्सि तहऽम्भुवगमे य । अणुरूबचाभावे काठिन्नजलाण किन्न भवे ॥२॥(धर्मसंग्रहणी) इति, नापि सन्दिग्धौनकान्तिकता * हेतोः शङ्कनीया, अचेतनस्योपलम्भकत्वशक्त्ययोगाद्, उपलम्भकत्वं हि चेतनाया धर्मः, ततः स कथं तदभावे भवितुम| हति', आह-प्रत्यक्षबाधितेयं प्रतिज्ञा, साक्षादिन्द्रियाणामुपलम्भकत्वेन प्रतीतेः, तथाहि-चक्षु रूपं गृहृदुपलभ्यते कौँ । शब्दं नासिका गन्धमित्यादि, तदेतन्महामोहावष्टब्धान्तःकरणताविलसितं, तथाहि-आत्मा शरीरेन्द्रियैः सहान्योऽन्यानुवेधेन व्यवस्थितः, ततोऽयमात्मा अमूनि चेन्द्रियाणि इति विवेक्तुमशक्नुवन्तो बालिशजन्तवः तत्रापि युष्मादृशां कुशास्त्र-12 सम्पर्कतः कुवासनासङ्गमः, ततः साक्षादुपलम्भिकानीन्द्रियाणि इति प्रतिपन्नाः, परमार्थतः पुनरुपलब्धा तत्रात्मैव, कथमेतदवसीयते इति चेत्, उच्यते, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात् , तथाहि-कोऽपि पूर्व चक्षुषा विवक्षितमर्थ गृहीतवान् ततः कालान्तरे दैवविनियोगतश्चक्षुषोऽपगमेऽपि स तमर्थमनुस्मरति, तत्र यदि चक्षुरेव द्रष्ट स्यात् ततश्चक्षुषोऽभावे तदुपलब्धार्थानुस्मरणं न भवेत्, न खात्मनाऽसौं अर्थोऽनुभूतः किन्तु चक्षुषा, चक्षुष एव साक्षात् द्रष्टुत्वेनोपगमात्, न अनुक्रम ~49~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy