________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [−], निर्युक्तिः [ - ], भाष्यं [ - ], वि०भा० गाथा [-], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्धा
॥ ११ ॥
| शिवकस्थासकोशकुशूलादिभावेभ्यो व्यतिरिक्तमन्वयिनमर्थं पश्यामः, न चापश्यन्तः प्रतिपत्तुं शक्नुमः, मा प्रापदत्यन्तासतोऽपि षष्ठभूतादेरभ्युपगमप्रसङ्गः, अथ द्रव्यमन्तरेण कथमिव भावानामुत्पत्तिरुपपद्यते । तस्मादवश्यं द्रव्यमभ्युपगमतव्यं, तदसम्यक्, प्रतीत्योत्पादवादस्य सम्यग्व्यवस्थितत्वात्, तथाहि पूर्व भावं कारणत्वेन प्रतीत्योत्तरो भावः समुत्पद्यते, पूर्व च कारणं कार्योत्पत्तिसमये स्वत एव विनिवर्त्तते, तस्य क्षणमात्रावस्थायित्वात् उत्तरोऽपि च भावस्तदुत्तरभावं प्रति कारणभावमनुभूय द्वितीयक्षणे न भवति, सर्वभावानां क्षणमात्रावस्थानात्, 'क्षणिकाः सर्व संस्कारा' इति वचनात् एवमेकैकांशावलम्बिनो नामादितया मिथ्यादृशः एकांशाभ्युपपमपरतया सम्पूर्णवस्तुसंस्पर्शित्वायोगात् वस्तुनोऽनेकधर्मस्यात्, भगवदर्हन्मतं तु सर्वनयसमूहात्मकमतोऽनेकांशावलम्वि किन्त्वेकांशविचारप्रक्रमेऽपीतरांशसापेक्षत्वात् सम्पूर्णवस्तुग्राहीति प्रमाणं, तथाहि - नामापि च वस्तुधर्मस्तस्य तत्प्रत्यय हेतुत्वात्, आकारोऽपि तात्त्विकस्तस्य प्रत्यक्षादिना | प्रमाणेनाविसंवादितयोपलम्भात्, द्रव्यमपि च प्रमाणं, तदभावे भावानामत्यन्तासतां खरविषाणस्येवोत्पादायोगात्, भावा | अपि च तात्त्विका द्रव्यस्य विचित्रशक्तिकतया तथा तथापरिणमनभावात्, तथा चाहुः स्तुतिषु गुरवः- “अन्योऽन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते ॥ १ ॥” आद्यस्तुतिकारोऽप्यवोचत्- "नयास्तव स्यात्पदलाञ्छना इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ १ ॥ तती नामादयोऽपि भाववत् तात्त्विका इति तेषामप्युपन्यासः ॥ अब सर्वज्ञशासने सकलनयमूलभूतौ द्वावेव नयौ, तद्यथा-द्रव्यातिकनयः पर्यायास्तिकनयश्च तथा चाहुः श्रीमलवा
For Private & Personal Use Only
~44~
नामादीना सापेक्षता
॥११॥