________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्तिः [ १३६], भाष्यं [-] वि० भा० गाथा [ १४७३ - १४७५], मूलं [- /गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घातनिर्युक्तिः
॥ १४४ ॥
गौश्चतुर्णामस्माकं ततः कथं कर्त्तव्या ?, तत्रैकेनोकं परिपाव्या दुह्यतामिति, तच्च समीचीनं प्रतिभातमिति सर्वैः प्रतिपन्नं, ततो यस्य प्रथमदिवसे गौरागता तेन चिन्तितं यथाऽहमद्यैव धोक्ष्यामि, कल्ये पुनरन्यो धोक्ष्यति, ततः किं निरर्विकामस्वाश्वारिं वहामि ?, ततो न किश्चिदपि तस्यै तेन दत्तं एवं शेषैरपि ततः सा श्वपाककुलनिपतितंत्र तृणसलिलादिविरहिता गतासुरभूत्, ततः समुत्थितस्तेषां धिग्जातीयानामवर्णवादो लोके, शेषगोदानादिलाभव्यवच्छेदश्व एवं शिष्या अपि ये | चिन्तयन्ति न खलु केवलानामस्माकमाचार्यो व्याख्यानयति, किन्तु प्रतीच्छकानामपि ततस्त एव विनयादिकं करिष्यन्ति, | किमस्माकमिति, प्रतीच्छका अप्येवं चिन्तयन्ति निजशिच्याः सर्व करिष्यन्ति, किमस्माकं कियत्कालावस्थायिनामिति ?, ततस्तेषामेवं चिन्तयतामपान्तराल एवाचार्यो विषीदति, लोके च तेषामवर्णवादो जायते, अन्यत्रापि च गच्छान्तरे दुर्लभौ तेषां सूत्रार्थी, ततस्ते गोप्रतिगाहकचतुर्द्विजातय इवायोग्या द्रष्टव्याः उक्तं च- "अन्नो दुज्झिहि कलं निरत्ययं से वहामि किं चारिं । चडचरणगवी उ मया अन्नहाणी उ बहुवाणं ॥ १ ॥ (वि. १४७३) सीसा पडिच्छगाणं भरोत्ति तेऽविय हु सीसगभरोति । न करेंति सुत्तहाणी अन्नत्थवि दुलहं तेसिं ॥२॥ (वि. १४७५) एष एव गोदृष्टान्तः प्रतिपक्षेऽपि योजनीयः, यथा कश्चित्कौटुम्बिको धर्म्मश्रद्धया चतुर्भ्यः चतुर्वेदपारगामिभ्यो गां दत्तवान्, तेऽपि च पूर्ववत्परिपाव्या दोग्धुमारब्धाः, तत्र यस्य प्रथमदिवसे सा गौरागता स चिन्तितवान् यद्यहमस्वाश्चारिं न दास्यामि ततः क्षुधा धातुक्षयादेषा प्राणानपहास्यति, ततो मे लोकेषु गोहत्यावर्णवादो भविष्यति, पुनरपि चास्मभ्यं न कोऽपि गवादिकं दास्यति, अपिच-यदि मदीयचा| रिचरणेन पुष्टा सती शेषैरपि ब्राह्मणैर्भोक्ष्यते ततो मे महान् अनुग्रहो भविष्यति, अहमपिच परिपाव्या पुनरप्येनां
Far Fate & Personal Use Only
~310~
शिष्यफ
रीक्षायां
शैलादिदृष्टान्ताः
॥ १४४ ॥