________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्ति: [ १३६ ], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
म्याश्च तत्र ये नवीना ये जीर्णा अभाविता ये च कुप्रावचनिकादिमाविता अपि क्म्या वे च संविघ्नभाविता अवाम्यास्ते सर्वेऽपि योग्याः, शेषा अयोग्याः । अथवाऽन्यथा कुटदृष्टान्तभावना-इह चत्वारः कुटास्तद्यथा — छिद्रकुटः खण्डकुटः कण्ठहीनकुटा सम्पूर्णकुटश्च तत्र यस्य अधो बुभे छिद्रं स छिद्रकुटः यस्य पुनरोष्ठपरिमण्डलाभावः स कण्डहीनकुटः यस्व पुनरेकपार्श्वे खण्डेन हीनता स खण्डकुटः यः पुनः सर्वावयवसंपूर्णः स संपूर्णकुटः एवं शिष्या अपि चत्वारो वेदितव्याः, तत्र यो व्याख्यानमण्डल्यामुपविष्टः सर्वमर्थमवबुध्यते व्याख्यानादुत्थितञ्च न किमपि सारति स छिद्रकुटसमानो, यथा हि छिद्र | कुटो यावत्तदवस्थ एव गाढमवनितलसंलग्नोऽवतिष्ठते तावन्न किमपि जलं ततः श्रवति, स्तोकं वा किञ्चिदिति, एवमेषोऽपि यावदाचार्यः पूर्वापरानुसन्धानेन सूत्रार्थमुपदिशति तावदवबुध्यते, उत्थितश्चेव्याख्यानमण्डल्या. तर्हि स्वयं पूर्वापरानुसन्धानविकलत्वान्न किमपि अनुस्मरति, यस्तु व्याख्यानमण्डल्यामप्युपविष्टोऽर्द्धमात्रं त्रिभागं चतुष्कं वा हीनं वा सूत्रार्थमवधारयति तथाऽवधारितं च स्मरति स खण्डकुटसमानः, यस्तु किञ्चिदूनं सूत्रार्थमवधारयति पश्चादपि च तथैव स्मृतिपथमवतारयति कण्ठहीन कुटसमानः, यस्तु आचार्योक्तं सकलमपि सूत्रार्थं यथावदवधारयति पश्चादपि च तथैव संपूर्ण स्मरति स सम्पूर्ण कुटसमानः, अत्र छिद्रकुटसमान एकान्तेनायोग्यः, शेषा यथोत्तरं प्रधानाः प्रधानतराः प्रधानतमाः । सम्प्रति चालनीदृष्टान्तभावना, चालनी लोकप्रसिद्धा यया कणिकादि चाल्यते, तत्र यथा चालन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेव गच्छति, न पुनः किय तमपि कालमवतिष्ठते, तथा यस्य सूत्रार्थः प्रदीयमानो यदैव कर्णे प्रविशति तदैव विस्मृतिपथमुपैति स चालणीसमानः, तथा मुद्रशैलच्छिद्रकुटचालणीस नान्शिज्य मेदप्रदर्शनार्थमुकं भाष्यकृता - " से लेयछिदुचालिणि मिहोकहा सोउ उट्ठियाणं तु ।
For Pruate & Personal Use Orty
~ 307~
janelibrary