________________
आगम (४०)
[भाग-3] “आवश्यक"- मूलसूत्र
अध्ययनं H, नियुक्ति: [१३०], भाष्यं , वि०भा गाथा [१४०८], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: ।
प्रत
सूत्रांक
SARDCOM
4
Mकालानुयोगो भावानुयोगश्च यथाविवशं सम्भवति, अथालोकरूपस्य क्षेत्रस्यानुयोगविवक्षा तर्हि न तत्रान्यानि द्रव्याणि सन्ति,
येऽप्यगुरुलघुपर्यायास्तेऽपि प्रतीता एव, अमूर्तत्वादलोकाकाशस्य, कालश्च तत्र सन्नपि वर्तनादिरूपोन विवक्ष्यते, व्यवहाराभावात् , तदभावश्चानाद्यनिधनतया प्रतीतत्वात्, ततोऽलोकरूपक्षेत्रानुयोगे न द्रव्यानुयोगस्य न कालानुयोगस्य नापि भावानुयोगस्य सम्भव इति क्षेत्रानुयोगे द्रव्यकालभावानुयोगानां भजना, कालानुयोगः पुनद्रव्यक्षेत्रभावानुयोगेषु भजनया, कालो। हि नाम द्विधा भवति-वर्तनादिरूपः समयावलिकादिरूपश्च, तत्र यदि वर्तनादिलक्षणो विवक्ष्यते ततः समस्तद्रव्यक्षेत्रभावन्यापीति द्रव्यानुयोगे क्षेत्रानुयोगे भावानुयोगे च कालानुयोगस्य सम्भवः, अथ समयावलिकादिरूपस्य विवक्षा तर्हि (स)
समयक्षेत्र एव नान्यत्रेति समयक्षेत्रगतद्रव्यक्षेत्रभावानुयोगेषु तदनुयोगस्य सम्भवो, न तद्वहि व्यक्षेत्रभावानुयोगेष्विति, 8 उकं च-"दवे नियमा भावो न विणा ते यावि खेत्तकालेहिं । खेत्ते तिण्हवि भयणा कालो भयणाएँ तीसुपि ॥१॥" है(वि.१४०८) उत्कोऽनुयोगः, एतद्विपरीतोऽननुयोगः, साम्प्रतमनुयोगाननुयोगप्रतिपादकदृष्टान्तप्रतिपादनार्थमाह
वच्छगगोणी खुज्जा सज्झाए चेव बहिरउल्लावो। गामेल्लए य वयणे सत्तेव य होति भावम्मि ॥१३०॥
इह यथा नामादिभेदात् सप्तविधोऽनुयोगो वर्णितस्तथाऽननुयोगोऽपि यथासम्भवं वर्णयितव्यः, तत्र नामस्थापने सुगमे, द्रव्याननुयोगे तत्प्रसङ्गतो द्रव्यानुयोगे वत्सगावाबुदाहरणं, क्षेत्राननुयोगानुयोगयोः कुब्जा उदाहरणं, कालाननुयोगानुयोगयोः स्वाध्यायः, वचनाननुयोगानुयोगयोरुदाहरणद्वयं, तद्यथा-बधिरोलापो ग्रामेयकश्च, भावे तु उदाहरणानि सप्त वश्यमाणानि । तत्र वत्सगोदृष्टान्तभाषा इयम्-"जइ गोदोहतो जो पाडलाए वच्छगो तं बहुलाए मुयइ बाहुलेयं वा
दीप अनुक्रम
मा.सू.२३
~287