SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १ अध्ययनं [-], निर्युक्ति: [ १२४ ], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः नाम च यद्यस्थातीर्थंकरः प्रतिपत्ता इति, अत्रार्थे च तन्मतेन तिस्रोऽम्यकर्तृका इमा गाथा: - "वीसमिऊण नियंगे दोहि उ समएहिं केवले सेसे। पढमं निहूं पयलं नामस्स इमाउ पथडीतो ॥ १ ॥ देवगड आणुपुबी वेड वियसंघयणपढमवजाई । अन्नयरं संठाणं तिरथयराहारनामं च ॥ २ ॥ चरमे नाणावरणं पंचविहं दंसणं चविकप्पं । पंचविहमंतरायं खबत्ता केवली होइ ॥ ३ ॥” एतच्च मतमसमीचीनं, चूर्णिकृतो भाष्यकृतः सर्वेषां च कर्म्मग्रन्थकाराणामसम्मतत्वात्, केवलं | वृत्तिकृता केनाप्यभिप्रायेण लिखितमिति, सूत्रेऽप्येता गाथाः प्रवाहपतिताः, निर्युक्तिकार कृतास्त्वेता न भवन्ति, चूर्णौ भाध्ये चार्यहणादिति, उत्पन्न केवलज्ञान केवल दर्शनश्च भगवान् सर्वे वस्तु जानाति ॥ तथा चाह नियुक्तिकारः भिन्नं पासंतो लोगमलोगं च सबओ सर्व्वं । तं नत्थि जं न पासह भूयं भवं भविस्सं च ॥ १२४ ॥ सम् - एकीभावेन भिन्नं सम्भिन्नं यथा वहिस्तथा मध्येऽपीत्यर्थः, अथवा द्रव्यक्षेत्रकालभावलक्षणं सर्वमपि ज्ञेयं विषयत्वेन दर्शनीयं तत्र सम्भिन्नमिति द्रव्यं विशेष्यं सूचितं, कालभावी तद्विशेषकी, कालभावौ हि द्रव्यस्य पर्यायौ, तत|स्ताभ्यां सनन्ताद्भिन्नं द्रव्यमिति सम्भिन्नग्रहणेन त्रितयमपि सूचितम् एतत्पश्यन् उपलभमानो लोकं धर्माद्याधारभूतं क्षेत्रमलोकं च तद्विपरीतं क्षेत्रम्, अनेन क्षेत्रं प्रतिपादितम् एतावदेव चतुर्विधं ज्ञेयं, नाम्यदिति, किमेकया दिशा पश्यनित्याह सर्वतः सर्वासु दिक्षु, तास्वपि किं कियदपि द्रव्यादि उत नेत्याह- 'सर्व' निरवशेषं, अमुमेवार्थ स्पष्टयन्नाह - १ निर्युक्तीनां सर्वासां चूर्ष्यादावमद्दात् न युक्तमिदं, क्षपकोपशमकते प्रकृते मोहमाश्रित्येति न नामविचारर्थ्यादौ, मतभेदस्तु नासंभवीति ता गाथा वृत्तौ व्याख्याताः For Pruabe & Personal Use Orty ~277~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy