________________
आगम (४०)
[भाग-3] “आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं , नियुक्ति: [११९-१२१], भाष्यं H, वि०भा०गाथा [१३१४,१३१६,१३१७], मूलं !- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: ।
प्रत
सूत्रांक
दीप अनुक्रम
सम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंवतानामन्यतमः, आह च-"पडिवत्तीए अविरयदेसपमचापमत्तविरयाणं । अन्नयरो। पडिवजह सुद्धज्झाणोषगवचित्तो॥१॥" (वि.१३१४) केवलं यद्यप्रमत्तसंयतः पूर्ववित् ततः शुक्लध्यानोपगतः श्रेणिमारभते, शेषस्तु धर्मध्यानोपगतः, तत्र क्षपकश्रेणिमारोहन् स प्रथममनन्तानुबन्धिनश्चतुरोऽपि क्रोधादीनन्तहिन युगपत् शप
यति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य मिथ्यात्वं सहैव तेन युगपत् क्षपयति, यथा ह्यतिसम्भृतो दवानला खल्वर्द्धकादग्धेन्धन एवेन्धनान्तरमासाद्य उभयमपि दहति, एवमसावपि क्षपकस्तीघ्रशुभपरिणामत्वादवशेषमन्यत्र प्रक्षिप्य क्षपयति,
तदनन्तरं तथैव सम्यग्मिथ्यात्वं तदनन्तरमेव च सम्यक्त्वम् , इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिक्षयानन्तरं च मरणसम्भवतो न्युपरमते ततः कदाचिन्मिथ्यादर्शनोदयात् भूयोऽप्यनन्तानुवन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशाद , क्षीणमिथ्यादर्शनस्तु न उपचिनोति, बीजाभावात् , क्षीणसप्तकस्त्वप्रतिपतितपरिणामो|ऽवश्यं त्रिदशेषु मध्ये समुत्पद्यते, प्रतिपतितपरिणामस्तु नानामतिसम्भवात् यथापरिणामं सर्वगतिभाग भवति, उक्तं च-"बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरेज्जा । ता मिच्छत्तोदयतो चिणिज्ज भूतो न खीणमि ॥१॥तमि मतो जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नाणामइगइओ ॥२॥" (वि. १३१६-७) वद्धायुः कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न चारित्रमोहक्षपणाय यत्नमादधाति, आह च-"बद्धाऊ पहिवन्नो नियमा खीणमि सत्तए ठाए ।" अत्राह-ननु यदि दर्शनत्रिकमपि क्षयमुपनीतं ततः किमसौ सम्यग्दृष्टिरुतासम्यग्दृष्टिः, उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत्, तदसद्, अभिप्रा
Eduar
~273