________________
आगम
[भाग-3] “आवश्यक"- मूलसूत्र
अध्ययनं H, नियुक्ति: [११६], भाष्यं H, वि०भा०गाथा [१२९३], मूलं - गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
प्रत
सूत्रांक
Socx
-
दीप अनुक्रम
होलभेदेनोपशमयति, तत एतेषां सोयानां खण्डानां यच्चरम खण्डं तदसोयानि खण्डानि करोति, ततः समये समये| दाएकैकं खण्डमुपशमयति, इह दर्शनसप्तके उपशान्तेऽपूर्वकरणोऽनिवृत्तिबादरो वाऽभिधीयते, स चानिवृत्तिबादरस्तावद्
यावत् सङ्ग्येयान्तिमचरमखण्ड । ननूपशमश्रेणिप्रस्थापकोऽप्रमत्तसंयत एव 'उपसागमसेढीए पढ़वगो अप्पमत्तविरतो य' इति वचनात्, अप्रमत्तसंयतश्च अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणमिथ्यात्वसम्यग्मिथ्यात्वानामुपशमाद् भवति, अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात् , तथा चाभिहितं प्राक्-'पढमेल्लुयाण उदये इत्यादि, ततः कथमिदानी तेषामुपशमो भण्यते । इति, तदसत्, सम्यक् सिद्धान्तापरिज्ञानात्, पूर्व हि तेषां क्षयोपशम. एवासीत्, नोपशमः, इदानी | तूपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदिते च उपशान्ते भवति, उपशमोऽपि चेत्थंभूत एव, ततः | कोऽनयोः प्रतिविशेषो येनैवमुच्यते-पूर्व क्षयोपशम आसीत् इदानी तूपशमः क्रियते इति, उच्यते, इह क्षयोपशमे तदा-1 वारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति, उपशमे तु स न भवतीति प्रतिविशेषः, आह च भाष्यकृत्-"वेएइ संतकम्म खतोक्समिएसुनाणुभावं सो। उवसंतकसाओ पुण, वेएइ न संतकम्मपि ॥१॥" (वि.१२९३) ननु यदि सत्यपि क्षयोपशमेऽनन्तानुबन्ध्यादिकषायमिथ्यात्वानां प्रदेशतोऽनुभवोऽस्ति तहि कथं न सम्यक्त्वादिगुणविधात उपजायते?, तदुदये ह्यवश्य सम्यक्त्वादिगुणलाभः सन्नप्यपगच्छति, यथा सास्वादनसम्यग्दृष्टेरिति, नेप दोषः, प्रदेशतोऽनुभवस्य मन्दानुभावत्वात् , मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलं, यथा चतुर्ज्ञानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः, तथाहि-मतिज्ञानावरणादिक कर्म ध्रुवोदयं ध्रुवोदयत्वाचावश्यं सर्वदा विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोद
E
44
~269~