________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्ति: [११६], भाष्यं [-] वि० भा० गाथा [१२८५-९२८६], मूलं [- /गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घातनिर्युक्तिः |
॥१२३॥
दण्डकधातुः, अणन्तीव - अविकलहेतुत्वेनासात वेद्यं नरकाद्यायुष्कं च शब्दयन्त्याकारयन्तीत्यणाः - आद्याः क्रोधादयश्चस्वारः कषायाः, अथवा 'पदैकदेशे पदसमुदायोपचाराद् अण' इत्यनन्तानुबन्धिन इति द्रष्टव्यं तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसायेषु वर्त्तमानः प्रथमं युगपदन्तर्मुहुर्त्तमात्रेण कालेनानन्तानुबन्धिनः क्रोधादीनुपशमयति, ततो दर्शनं दर्शस्तं दर्शनं तच त्रिविधं तद्यथा - मिथ्यादर्शनं सम्यग्मिथ्यादर्शनं सम्यग्दर्शनञ्च, एतानि त्रीण्यपि युगपदन्तर्मुहूर्त्तमात्रेणोपशमयति, एवं सर्वत्र युगपदुपशमकालोऽन्तर्मुहूर्त्त प्रमाण एव द्रष्टव्यः, यदि पुरुषः प्रारम्भकः ततो 'नपुंस' ति अनुदीर्णमपि नपुंसक वेदमन्तर्मुहूर्त्तेनोपशमयति, ततः स्त्रीवेदं, तदनन्तरं हास्यरत्यरतिशोकभय जुगुप्सालक्षणं हास्यषहूं, ततः पुरुषवेदम्, अथ स्त्रीप्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति, पश्चात् पुरुषवेदं तदनन्तरं हास्यादिपङ्कं अथ नपुंसकः प्रारम्भकस्ततोऽसावनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति ततः पुरुषं वेदं तदनन्तरं खीवेदम्, ततः हास्यादिषट्कं ततो नपुंसकवेदमिति, 'दो दो एगंतरिए' इत्यादि, इतऊर्द्ध द्वौ द्वौ -क्रोधाद्यो एकान्तरितौ-संज्वलन क्रोधान्तरितौ सदृशौ - क्रोधादितया परस्परं तुल्यौ सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्त्तेनोपशमयति, एतदुक्तं भवति - अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ क्रोधत्वेन सदृशौ युगपदन्तर्मुहूर्त्तमात्रेणोपशमयति, ततः सञ्चलनक्रोधमेकाकिनमेवान्तर्मुहूर्त्तमात्रेणोपशम| यति, ततोऽप्रत्याख्यान प्रत्याख्यानादरणमानौ युगपदेव ततः सवलनमानमेकाकिनमेव, ततोऽप्रत्याख्यानप्रत्याख्यानावरणमाये युगपत् ततः सवलमायामेकाकिनीं ततोऽप्रत्याख्यानप्रत्याख्यानावरणलोभौ ततः सबलनलोभं तं चोपशम| यन् त्रिधा करोति, तत्र द्वौ भागौ युगपदुपशमयति, तृतीयभागं सत्येयानि खण्डानि करोति, तान्यपि पृथक्पृथक्का
For Prvate & Personal Use Orty
268~
उपशमश्रणिः ११६
॥ १२३ ॥