________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्ति: [ ११४, ११५], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
Jan Educa
चारित्रद्वारं ३ तीर्थद्वारं ४ पर्याप्तद्वारं ५ आगमद्वारं ६ वेदद्वारं ७ कल्पद्वारं ८ लिङ्गद्वारं ९ लेश्याद्वारं १० ध्यानद्वारं ११ गणनाद्वारं १२ अभिग्रहद्वारं १३ प्रब्रज्याद्वारं १४ मुण्डापनद्वारं १५ प्रायश्चित्तद्वारं १६ कारणद्वारं १७ निष्प्रतिकर्म्मताद्वारं १८ मिक्षाद्वारं १९ पथद्वारं २०, तत्र क्षेत्रे द्विधा मार्गणा-जन्मतः सद्भावतश्च तत्र यत्र क्षेत्रे जातस्तत्र जन्मतो मार्गणा, यत्र च कल्पे स्थितो वर्त्तते तत्र सद्भावतः उक्तं च- "खेते दुद्देह मग्गण जम्मणतो चैव संतिभावे य । जम्मणतो जहिं जातो संतीभावो य जहिं कप्पे ॥१॥” (पंच. १४८५) तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पश्च स्वैरवतेषु, न तु महा विदेहेषु, न चैतेषां संहरणमस्ति, येन जिनकल्पिका इव संहरणतः सर्वासु कर्म्मभूमिषु अकर्मभूमिषु वा प्राप्येरन, | उक्तं च- "खेत्ते भर हेरवएस होंति संहरणवजिया नियमा।” (पं.१५२९) कालद्वारेऽवसर्पिण्यां तृतीये चतुर्थे वा अर के जन्म सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावतः पुनः तृतीये चतुर्थे वा, उक्तं च- “ओसप्पिणीए दोसुं, जम्मणतो तीसु संतिभावेणं । उसप्पिणि विवरीतो, जम्मणतो संतिभावे य ॥ १ ॥” (पंच. १४८७) नोत्सर्पिण्यव सप्पिंणीरूपे चतुर्थारकप्रतिभागे काले न सम्भवन्ति, महाविदेहक्षेत्रेषु तेषामसम्भवात्, चारित्रद्वारे संयमस्थानद्वारेण मार्गणा, तत्र | सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परतुल्यानि, समानपरिणामत्वात्, | ततोऽसयलोकाकाशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योर्ध्वं यानि संयमस्थानानि तानि परिहारविशुद्धिक योग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानान्यसङ्ख्वेयलोकाकाशप्रदेशप्रमाणानि तानि प्रथमद्वितीयचारित्राविरोधीनि, तेष्यपि सम्भवात् ततः ऊर्ध्वं यानि सङ्ख्यातीतानि संयमस्थानानि तानि सूक्ष्मसम्पराययथाख्यातचारित्रयोग्यानि, उक्तं च
For Prvate & Personal Use Orty
~ 261 ~
www.brary org