________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्तिः [१०७ ], भाष्यं [-] वि० भा० गाथा [ १२१५-१२१७, १२२०, १२२१], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
Jan Education international
नेन मिथ्यात्वं मिथ्यादर्शनसम्यग्मिथ्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजते, तथा चोकम् - "मयणा दरनिवलिया | निवलिआ व जह कोहवा तिविहा । तह मिच्छत्तं तिविहं परिणामवसेण सो कुणइ ॥१॥ (वि. १२२० ) ततोऽनिवर्त्तिकरणविशेषात् सम्यक्त्वं प्राप्नोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद्यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्याईदादिविभूतिसन्दर्शनतः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषसामायिकलाभ:, उक्तं च- "नासेइ सयं व परिकम्मतो व जह कोदवाण मयभावो । नासह तह मिच्छमओ, सयं व परिकम्मणाए वा ॥ १ ॥ अप्युषेण तिपुंजं, मिच्छत्तं कुणइ कोदवोवमया । अनियट्टीकरणेण उ सो सम्मदंसणं लद्दड् ॥ २ ॥ तित्थंकराइपूर्य, दहुं अण्णेण वावि कज्जेणं । सुयसामाइयलंभो होज अभवस्स गंथिंमि ॥३॥” (वि. १२१५-७) सम्प्रति जलदृष्टान्तः, यथाहि जलं मलिनमर्द्ध विशुद्धं शुद्धं चेति त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेन अपूर्वकरणतस्त्रिधा करोति, एवं वस्त्रदृष्टान्तेऽपि भावना कार्या, आह च "जह वेह किंचि मलिणं, दरसुद्धं सुद्धमंबु वत्थं वा । एवं परिणामवसा, करेइ | सो दंसणं तिविहं॥ १ ॥” (वि.१२२१) सम्प्रति प्रासङ्गिकमुच्यते एवं सम्यग्दर्शनलाभोत्तर कालमवशेषकर्म्मणः पल्योपमपृथक्त्व| स्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते पुनः शेषायाः सङ्ख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिः, तदनन्तरमवशेषस्थितेरपि सङ्ख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशमश्रेणिः, तदनन्तरं भूयोऽप्यवशिष्टस्थितेः सङ्ख्येयेषु सागरोपमेष्वपगतेषु क्षपकश्रेणिरिति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषूत्पद्यमानस्याप्रतिपतितस्योत्कर्षतो द्रष्टव्या, अन्यथा अन्यतरश्रेणिरहितस्य सम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति भणितमानुषङ्गिकमिदानीं यदुदयात् सम्यक्त्वसामा
For Prvate & Personal Use Orty
253~