SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं H, नियुक्ति: [८०], भाष्यं , वि०भा०गाथा -1, मूलं [- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः । N प्रत सूत्रांक दीप अनुक्रम H भगाव्यभिचारात् ततः किमनेन विशेषणेन ?, तदयुक्तम् अस्य नयमवान्तरावलम्बिपरिकल्पितबुद्धादितीर्थकरतिरस्कारपर-11 त्वात् , तथाहि-न ते बुद्धादयः स्वस्वदर्शनरूपतीर्थकारिणोऽपि तत्त्ववृत्त्या भगवन्तो, यधोक्तसमप्रैश्वर्यादिगुणकलापा-1 योगादिति, तथा परे-शत्रयः ते च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो मत्सरिणो भावतः क्रोधादयः, इह भावशत्रुभिः प्रयोजनं, तेषामेवोच्छेदतो मुक्तिभावात् , आक्रमणमाक्रमः-पराजयः उच्छेद इतियावत् परेषामाक्रमः पराक्रमः सोऽनुतरः-अनन्यसदृशो येषां तेऽनुचरपराक्रमास्तान, वन्दे इति क्रिया सर्वत्र योज्या, आह-ये खल्वैश्वर्यादिभगवन्तस्तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगासम्भवात्, ततोऽनुत्तरपराक्रमानित्येतदतिरिच्यते, नैष दोषः, अस्य अनादिसिद्धैश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिषेधपरत्वात्, तथाहि-कैश्चिदनुत्तरपराक्रमत्वमन्तरेणैव हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यते, उकंच-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्च, सहसिद्ध चतुष्टयम् ॥१॥" इत्यादि, तथाभूतान् भगवतस्तीर्थकरान् मा ज्ञासिषुर्विनेया इति तद्व्यवच्छेदार्थमनुत्तरपराक्रमानित्यु कं, तथा अमितम्-अपरिमितं ज्ञेयानन्तत्वात् ज्ञानं केवलज्ञानं अमितज्ञानं तद्येषामस्ति तेऽमितज्ञानिनस्तान, ननु ये अनुत्तरपराक्रमास्तेऽमितज्ञानिन एव, क्रोधादिपरिक्षयोत्तरकालमवश्यममितज्ञानस्य भावात्, सत्यमेतत् , केवलं ये| केशक्षयेऽप्यमितज्ञानं नाभ्युपगच्छन्ति, तथा च तद्ग्रन्थः, "सर्व पश्यतु या मा वा, तत्त्रमिष्टं तु पश्यतु । कीटसलापरि ज्ञानं, तस्य न कोपयुज्यते ॥१॥" इत्यादि, तन्मतव्यवच्छेदफलमिदं विशेषणमित्यदोषः, तद्व्यवच्छेदश्चैवम्-सर्वभा-1 सवपरिज्ञानाभावे तत्त्ववृत्त्या एकस्यापि वस्तुनः परिज्ञानायोगात् , सर्वस्यापि यथायोगमनुवृत्तव्यावृत्तधम्मतया सर्वेः सह। CAC%CONCA-NA+ Furune Fersonals ~219~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy