SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं H, नियुक्ति: [७९], भाष्यं , विभा गाथा [९३१-९३४], मूलं [- /गाथा-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः । प्रत सूत्रांक दीप अनुक्रम समादिष्टश्च विनीततया प्रसिद्धो राजपुत्र:-कुतोमुखी गङ्गा वहतीति शोधय, तेनोक्तम्-किमिह शोधनीयं ?, वालानामपि | प्रतीतमेतत्-पूर्वाभिमुखी गङ्गा प्रवहतीति, राज्ञा पोचे-किमिति त्वमवैव वितण्डावादं करोषि ?, गत्वा निरीक्षस्व तावत् , ततो मनस्यसूयां वहन् बहिः संवृतिं कृत्वा महता कष्टेन ततः प्रदेशान्निर्गतः, सिंहद्वारे च गच्छन् केनापि मित्रेण | पपृच्छे-भद्र ! व गतव्यं ?, तेनासूयया प्रोक्तम्-अरण्ये रोझानां लवणदानार्थ, ततो मित्रेणोक्तम्-कोऽयं व्यतिकरो?, राजपुत्रेण सर्वमपि राजादिष्टं निवेदितं, मित्रेणोक्त-यदि राज्ञो ग्रहः संलग्नः तत्किं तवापि संलग्नः ?, गत्वा निवेदयनिरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहति, तथैवानुष्ठितं राजपुत्रेण, प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितं, ततो विल क्षेण राज्ञा प्रोक्तम्-भव्यं, साधुरपि परीक्ष्यतां, ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विषये राज्ञा परीक्षार्थ प्रतिपा|दितेन गुरुणाऽभिहितः स शिष्यो-गत्वा निरीक्षस्व केन मुखेन गङ्गा वहतीति, तत्र पूर्वाभिमुखी गङ्गा वहतीति गुर-15 हयोऽपि विदन्ति, परमत्र केनापि कारणेन भवितव्यमिति चेतसि निश्चित्य तेन प्रोक्तम्-इच्छाम्यादेशमिति, एतच्चाभि धाय निर्गतः प्राप्तो गङ्गां निरीक्षिता सा स्वयं तदनन्तरं पृष्टा परेभ्यः तदनु शुष्कतृणादिवहनेनान्वयव्यतिरेकाभ्यां निश्चिता, ततो निवेदितमागत्य गुरुभ्यः-इत्थमित्थं च मया निश्चितं-पूर्वाभिमुखी गङ्गा वहतीति, प्रच्छन्नहेरिकेणाप्यस्य सर्व निवेदितं, ततोऽभ्युपगतं सहर्षेण राज्ञा गुरुवचन मिति । ननु यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषा निष्प्रयोजनत्वात् , तदयुक्त, गुरुचित्तप्रसादनार्थ तेषामुपयोगित्वात् , तथाहि-देशकालावपेक्ष्य परिकर्मनाशी द्रव्याणामुद कोदनादीनामाहारादिकार्येषु कुर्वन हरति विनेयो गुरूणां चेतः, अथवोपक्रमसामान्यात् प्रकृते निरुपयोगा अप्यन्यत्रोपयो Furune Fersonals ranelibrary org ~2074
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy