________________
आगम
(४०)
[भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं H, नियुक्ति: [७९], भाष्यं , वि०भा०गाथा -1, मूलं [- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [९] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
SEC+
प्रत
सूत्रांक
दीप अनुक्रम
भव्येषु च, परमद्वारे चरमेषु, भवस्थकेवलिनां चरमत्वाद्, अचरमेषु च, सिद्धानां भवान्तरप्राप्त्वभावतोऽचरमस्वात्, पूर्वप्रतिपन्नप्रतिपद्यमानकयोजना तु स्वधिया कर्तव्या, द्रव्यप्रमाणद्वारे प्रतिपद्यमानकानाश्रित्योत्कर्षतोऽष्टोत्तरशतं केवलिनां 8 प्राप्यते, पूर्वप्रतिपक्षाच जघन्यत उत्कर्षतश्च कोटीपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धाः अनन्ता, क्षेत्रस्पर्शनाद्वारयोस्तु जघन्यतो लोकस्याप्यसङ्ख्येयभागे केवली लभ्यते, उत्कर्षसस्तु सर्वलोके, कालद्वारे साद्यपर्यवसितं कालं है | सर्वोऽपि केवली भवति, अन्तरं तु केवलज्ञानस्य न विद्यते, प्रतिपाताभावात् , भागद्वारं मतिज्ञानवत्, मावद्वारे क्षायिके भावे, अल्पबहुत्वद्वारं मतिज्ञानिवत् ॥ तच्च केवलज्ञानं समासतश्चतुर्विध प्रज्ञप्तम् , तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतः केवलज्ञानी सर्वव्याणि जानाति पश्यति, क्षेत्रतः सर्व क्षेत्रम्, कालतः सर्वकालम् , भावतः सर्वान् भावान् , उक्तं च केवलज्ञानं, तदभिधानाच्च नन्दी, तदभिधानान्मङ्गलमिति ॥ तदेवं मङ्गलस्वरूपाभिधानarरेण ज्ञानपश्चकमुक्तम् , इह तु प्रकृतेन श्रुतज्ञानेनाधिकारः, तथा चाह नियुक्तिकृत्
इत्थं पुण अहिगारो सुयनाणेणं जतो सुएणं तु । सेसाणमप्पणोऽविय अणुयोग पदीवदिहतो ॥७९॥ अत्र-पुनः प्रकृतेऽधिकारः श्रुतज्ञानेनेव (श्रुतेन) शेषाणां मत्यादिज्ञानानामात्मनोऽपि चानुयोगो व्याख्यानं क्रियत इति वाक्यशेषः, खपरप्रकाशकत्वात् , तथा चार प्रदीपदृष्टान्तः, यथा हि प्रदीपः स्वपरप्रकाशकत्वात् स एव गृहेऽपि. क्रियते एवमिहापि श्रुतज्ञानमिति भावः॥ पीठिका समाता॥
कबर
For
a From Us
~193