________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्ति: [ ७८ ], भाष्यं [-] वि० भा०गाथा [-], मूलं [- /गाथा - ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
आ.सु. १५
कृत् -' इत्थीए लिंगं इत्थिलिंगं, इत्थीए उवलक्खणंतिवृत्तं भवति, तं च तिविहं वेदो सरीरनिधित्ती नेवत्थं च, इह सरीरनि वित्तीए अहिगारो, न वेयनेवत्थेहिंति" तस्मिन् स्त्रीलिङ्गे वर्त्तमाना ये सिद्धास्तेषां केवलज्ञानं स्त्रीलिङ्गसिद्ध केवलज्ञानं, एवं पुरुषलिङ्गे सिद्धानां केवलज्ञानं पुरुषलिङ्गसिद्ध केवलज्ञानं, एवं नपुंसकलिङ्गसिद्ध केवलज्ञान मपि भाव्यम्, तथा स्वलिङ्गे -रजोहरणादी सिद्धानां केवलज्ञानं स्वलिः सिद्धकेवलज्ञानं, अन्यलिङ्गसिद्ध केवलज्ञानं नाम यदन्यस्मिन् लिङ्गे वर्त्तमानाः सम्यक्त्वं प्रतिपद्य भावनाविशेषात् केव ज्ञानमुत्पाद्य केवलोत्पत्तिसमकालमेव कालं कुर्वन्ति तदन्यलिङ्गसिद्ध केवलज्ञानं, यदि पुन| स्तेऽन्यलिङ्गस्थिताः कैथल : पाद्यात्मनोऽपरिक्षीणमायुः पश्यन्ति ततः साधुलिङ्गमेव परिगृह्णन्ति, गृहलिङ्गे स्थिताः सन्तो ये सिद्धास्तेषां केवलज्ञानं गृहिलिङ्गसिद्ध केवलज्ञानम्, एकसिद्ध केवलज्ञानं नाम यस्मिन् समये स विवक्षितः सिद्धस्तस्मिन् समये यद्यन्यः कोऽपि न सिद्धस्ततस्तस्य केवलज्ञानमेकसिद्ध केवलज्ञानं, एकस्मिन् समयेऽनेकेषां सिद्धानां केवलज्ञानमनेकसिद्ध केवलज्ञानं, एकस्मिंश्च समयेऽनेके सिद्ध्यन्त उत्कर्षतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः, यत उक्तम् - " बत्तीसा अडयाला, सट्ठी वायसरी य बोद्धवा । चुलसीओ छन्नउई, दुरहियमदुत्तरस्यं च ॥ १ ॥" अस्या विनेयजनानुग्रहाय व्याख्याअष्टौं समयान् यावद् निरन्तर मेकादयो द्वात्रिंशत्पर्यन्ताः सिद्धान्तः प्राप्यन्ते, किमुक्तं भवति, :- प्रथमे समये जघन्यत एको | द्वौ वा उत्कर्षतो द्वात्रिंशत्सिद्धयन्तः प्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्, एवं यावद| टमेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्, ततः परमवश्यमन्तरम्, तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः सप्त यावत्याप्यन्ते परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता
For Pruabe & Personal Use Orty
~191~