________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[H]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्तिः [७३-७५], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
शरीरकरणादिलब्धयो वेदितव्याः, एतासां च लब्धीनां मध्येऽर्हस्वलब्धिर्वासुदेवत्वलन्धिश्चक्रवर्त्तित्वलन्धिः सम्भिन्नश्रोतोलब्धिर्जङाचारणलब्धिः पूर्वधरलब्धिरित्येताः सष्ठ लब्धयो भव्य स्त्रीणां नोपजायन्ते, अभव्यपुरुषाणामृजुमतित्वविपुलमतित्वलब्धी अपि, अभव्यस्त्रीणां मध्वाश्रववीराश्रवसप्पिराश्रवल ब्धयोऽपि, उक्तं च-- " जिणवलचक्कीकेसव संभिन्ने जंघचरण पुढे य । भवियाए इत्थियाए एयाओं न सत्त लद्धीओ ॥ १ ॥” शेषास्तु भवन्तीति सामर्थ्यादवसीयते, " रिजुमइविपुलमईओ, सत्त य एयाओं पुवभणियाओ। लद्धीओं अभवाणं, होंति नराणंपि न कयाइ ॥ १॥ अभवियमहिलापि एवाओ न होति सत्त लद्धीओ । महुखीरासबलद्धीवि नेव सेसाओं अविरुद्धा ||२||” अन्ये त्वेवमाहुः - आमपौषधिलब्धिः १ श्लेष्मीपधिलब्धिः २ जल्लोषधिलब्धि ३ विपश्रवणौषधिलब्धिः ४ सर्वौषधिलब्धिः ५ कोष्ठबुद्धिः ६ बीजबुद्धिः ७ पदानुसारी ८ सम्भिन्नश्रोता ९ ऋजुमतिः १० विपुलमतिः ११ क्षीरमध्वाश्रवलब्धिः १२ अक्षीणमहानसलब्धिः १३ वैक्रियलब्धिः | १४ जङ्घाचारणलब्धिः १५ विद्याधरलब्धिः १६ अर्हस्वलब्धिः १७ चक्रवर्त्तित्वलन्धिः १८ बलदेवत्वलन्धिः १९ वासुदेवत्वलब्धिः २० एता विंशतिलब्धयो भव्यपुरुषाणां भवन्ति, तथा चोक्तम्- "आमोसही य खेले जल्ले विप्पे य होइ सबै य। कोट्ठे यं बीयबुद्धी पयाणुसारी य संभिन्ने ॥१॥ उज्जुमइ विउल खीरे महु अक्खीणे विउवि चरणे य। विज्जाहर अरहंता चक्कीबलवासु वीसइमा ॥ २ ॥ भवसिद्धियाणमेया, वीसंपि हवंति इत्थ लद्धीओ।” इति, तदेतदसम्यक्, अन्यासामपि भवसिद्धियोग्यानां गणधरत्वपुलाकत्दप्रभृतीनां लब्धीनां सद्भावात् नाप्येता भवसिद्धिकयोग्या एव, वैक्रियविद्याधरत्व
For Pruabe & Personal Use Orty
183~