SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं , नियुक्ति: [६९,७०], भाष्यं H, वि०भा०गाथा , मूलं - गाथा-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः । * 4 प्रत सूत्रांक % % % दीप अनुक्रम भागमुत्कर्षतोऽसोया उत्सपिण्यवसर्पिणीः, भावतो जघन्येनाप्यनन्तान भावान् सर्वभावानामतन्तभागं जानाति पश्यति, एष चावधिः ऋद्धिविशेषो गीयते, तत ऋद्धिप्रतिपादनावसरात् शेषर्धयोरपि पर्यन्ते, ता एवाह आमोसहि विप्पोसहि, खेलोसही जल्लमोसहि चेव । संभिन्नसोय उजुमह, सबोसहि चेव बोद्धयो॥ ६९॥ | चारणआसीविसा केवली य मणनाणिणो य पुषधरा । अरिहंत-चक्कवरी बलदेवा वासुदेवा य ॥७॥ | तत्र आमर्षणमामर्षः, संस्पर्शनमित्यर्थः, स एव औषधिर्यस्यासावामाँषधिः, करादिसंस्पर्शनमात्रादेव व्याध्यपनयनसमर्थो, लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामौषधिलेब्धिरित्यर्थः, एवं शेषपदेष्वपि भावना कार्या, 'विप्पोसहि इति, मूत्रस्य पुरीपस्य वाऽवयवो विट् उच्यते, अन्ये त्वाहुः-विडिति विष्ठा इति प्रश्नवणं ते औषधिर्यस्यासौ तथा, खेल:श्लेष्मा औषधिर्यस्य स तथा, जल्लो-मलः स औषधिर्यस्य स तथा, सुगन्धाश्चैते भवन्ति विडादयस्तल्लब्धिमतां, इयमत्र | भावना-इहामषौपधिलब्धिः कस्यापि शरीरैकदेशे समुत्पद्यते, कस्यापि सर्वस्मिन् शरीरे, तेनात्मानं परं वा यदा व्याध्यपगमवुद्ध्या परामृशति तदा तदपगमो भवति, विडादिभिरपि तल्लब्धिमन्तो यदाऽत्मानं परं या रोगापनयनबुख्या परामृशन्ति तदा तद्रोगापगमः, 'सम्मिन्नसोय' इति यः सर्वैरपि शरीरदेशः शृणोति स सम्भिन्नश्रोताः, अथवा श्रोतांसि-12 इन्द्रियाणि सम्भिन्नानि एकैकशः सर्वविषयैर्यस्य स सम्भिन्नश्रोता:-एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान योऽवगच्छति स सम्भिन्नश्रोता इत्यर्थः, अथवा श्रोतांसि-इन्द्रियाणि सम्भिन्नानि-परस्परत एकरूपतामापन्नानि यस्य स तथा, प्रोत्रं चक्षुकार्यकारित्वात् चक्षुरूपतामापन, चक्षुरपि प्रोत्रकार्यकारित्वात् तद्पतामापनमित्येवं सम्भिन्नानि % % 4444 FuLFU ... अत्र आमाँषधि आदि ऋद्धिनां वर्णनं क्रियते ~177~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy