SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं H, नियुक्ति: [४२,४३], भाष्यं H, वि०भा गाथा [६७०], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: । प्रत सूत्रांक भागो लोकपल्योपमयोः, सूत्रे चैकत्वं समाहारद्वन्दविवक्षणात्, विषयत्वेन बोद्धव्या, किमुक्तं भवति :-मनोवर्गणागतं | द्रव्यं पश्यन् अवधिः क्षेत्रतो लोकस्य सङ्ग्याततम भागं कालतस्तु पस्योपमस्य समयांततम भागं पश्यति, 'संखेजकम्मदवे' इति कर्मवर्गणागतं कर्मपरिणामयोग्यं कर्मद्रव्यं तद्विषयेऽवधौ सोया लोकपस्योपमयोर्भागा विषयत्वेन विज्ञेयाः, इदमुक्तं भवति-कर्मवर्गणाद्रव्यं पश्यन् अवधिः क्षेत्रतो लोकस्य सङ्ख्येयान् भागान् पश्यति, कालतस्तु पल्योपमस्य समेयान् भागान् , उक्तं च-"लोगपलियाण मार्ग संखइमं मुणइ जो मणोदछ । संखेजे पुण भागे, पासह जो कम्मुणो जोग्गं ॥१॥"(वि.६७०) लोए थोऊणयं पलिय' ति लोके-चतुईशरज्वात्मकलोकविषयेऽवधौ कालतः स्तोकोनं पल्योपमं विषयतया विज्ञेयम् , किमुक्तं भवति:-क्षेत्रतः समस्तं लोकं पश्यन्नवधिःकालतः स्तोकोनंपल्योपमं पश्यतीति, द्रव्येण सह क्षेत्रकालयोरुपनिबन्धे प्रस्तुते केवलयोरुपनिबन्धप्ररूपणमसमीचीनं, विस्मरणशीलतासूचकत्वादिति चेत्, नैप दोषः, द्रव्योपनिबन्धस्यात्रापि सामर्थ्यप्रापितत्वात् , तथाहि-पूर्व 'काले चउण्ह वुड्ढी' इत्युक्तम् , कालवृद्धिश्चात्र अनन्तरोककर्मद्रव्य दर्शकापेक्षया प्रतिपादिता, ततोऽस्य समस्तलोकस्तोकोनपल्योपमदर्शिनः सामर्थ्यात्कर्मद्रव्योपरि यत् किमपि ध्रुववर्गप्राणादि तद्विपयत्वेन द्रष्टव्यम् , अत एव तदुपर्युपरि द्रव्याणि पश्यतः क्षेत्रकालवृद्धिक्रमेण परमावधिसम्भवोऽप्यनुमेयः, द्वितीयगाथाव्याख्या-शरीरशब्दः प्रत्येकमभिसम्बध्यते, तैजसशरीरे कार्मणशरीरे च-एतद्विषयेऽवधाविति भावः, तथा तेजसवर्गणाद्रव्यविषयेऽवधौ भाषाद्रव्यवर्गणाविषये चावधौ क्षेत्रतः प्रत्येकमसावेया द्वीपसमुद्राः कालश्चासत्रेयः-पल्योपमासोयभागरूपो विषयत्वेनावसातव्यः, इह यद्यप्यविशेषेणोकं तथापि तैजसशरीरात् कार्मणशरीरस्य सूक्ष्मत्वात् C%*%APAN दीप अनुक्रम ~1454
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy