SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] "आवश्यक"- मूलसूत्र अध्ययनं H, नियुक्ति: [+३६], भाष्यं H, वि०भा०गाथा [६१८], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम भावनीयः, यदा पुनः स्वयंभूरमणे द्वीपे समुद्रे वा कस्यचित्तिरश्चोऽवधिरसङ्ख्येयकालविषयो जायते तदा तस्य स्वयंभूरमणस्य द्वीपस्य समुद्रस्य वा एकदेशो विषयः, स्वयम्भूरमणविषयमनुष्यवाह्यावधिर्वा तदेकदेशो विषयः, क्षेत्रपरिमाणं पुनः सर्वत्रापि योजनापेक्षया संख्येयाख्यं असमवेयाख्यं घा, तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः कालवृद्धौ च यथा क्षेत्रवृद्धिस्तधा परिस्थरन्यायमङ्गीकृत्य प्रतिपादितं । सम्पति द्रव्यक्षेत्रकालभावानां मध्ये यवृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह काले चउण्ह बुड्ढी, कालो भइयव्वु खेत्तवुडीए । वुड्डीए वपज्जव भइयवा खित्तकाला उ॥१॥ | काले-अवधिगोचरे'वर्द्धमाने चतुर्णा-द्रव्यक्षेत्रकालभावानां वृद्धिर्भवति, तथा क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिस्तस्यां सत्यां । 18कालो भजनीयो-विकल्पनीयः, कदाचिद्वर्द्धते कदाचिन्न, क्षेत्रं ह्यत्यंतसूक्ष्मं कालस्तु तदपेक्षया परिस्थूरः, ततो यदि प्रभूता, क्षेत्रवृद्धिस्ततो वर्द्धते शेषकालं नेति । द्रव्यपर्यायौ तु नियमतो वढेते, यत उक्तम्-"काले पवड्डमाणे सवे दवादयो पवटुंति। खित्ते कालो भइओ वडंति उ दवपजाया"॥१॥ (वि. ६१८) तथा द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोवृद्धौ सत्यां, सूत्रे | विभक्तिलोपः प्राकृतत्वाद्, भजनीयावेव क्षेत्रकालौ, दुशब्द एवकारार्थः स च भिन्नक्रमः तथैव च योजितः, भजना? चैव-कदाचित्तयोवृद्धिर्भवति कदाचिन्न, यतो व्यं क्षेत्रादपि रश्म, एकस्मिन्नपि नभःप्रदेशेऽनन्तस्कन्धावगाहतः, द्रव्या दपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्येऽनन्तपर्यायसम्भवात् , ततो द्रव्यपर्यायवृद्धौ क्षेत्रकाली भजनीयावेव भवतः, द्रव्ये च | 18 वर्द्धमाने पर्याया नियमतो वर्धन्ते, प्रतिद्रव्यं सङ्ख्येयानामसङ्ख्येयानां वा पर्यायाणामवधिना परिच्छेदसम्भवात्, पर्याये तु HALACKCROSk4R50 Sekc-MARAT Maijaahelibrary.org ... अत्र नियुक्ति: ३६ एव वर्तते किन्तु मूल संपादने गाथा ||१|| इति मुद्रितं ~133
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy