SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] "आवश्यक"- मलसूत्र अध्ययनं H, नियुक्ति: [३१], भाष्यं H, वि०भा०गाथा [६०१,६०३,६०४], मूलं - गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: । प्रत । सूत्रांक दीप अनुक्रम * स्मेति ख्यापनार्थः, इदं धानन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति तत आह-सर्वदिक,अनेन सूचीचमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासाववषिश्च परमावधिः, एतावद् अनन्तरोदितं सर्वबहनलसूचीपरिक्षेपप्रमितं क्षेत्रमङ्गीकृत्य निर्दिष्टा, प्रतिपादितो गणधरादिभिः क्षेत्रनिर्दिष्टः, किमुक्तं भवति !-सर्वबहग्निजीवा निरन्तरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिक भृतवन्तः एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुकः परमावधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः । अयमिह सम्प्रदायः सर्ववह्वग्निजीवादयः प्रायोऽजितस्वामितीर्थकाले प्राप्यन्ते, तदारम्भकमनुष्यबाहुल्वभावात् , सूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रैव विवश्यते, ततश्च ते सर्वबहवोऽनलजीवा भवन्ति, तेषां स्वबुद्ध्या पोढा अवस्थान करूप्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घन इति प्रथम, स एव पनो जीयैः स्वावगाहनाभिरिति । द्वितीय, एवं प्रतरोऽपि द्विभेदः, श्रेणिरपि द्विधा, तत्राद्याः पञ्च प्रकारा अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात्, षष्ठस्तु प्रकारः सूत्रादेशः, उप-"एकेकागासपएस जीवस्यणा य सावगाहे य । चउरंस घणं पयरं सेढी छट्टो सुयादेसो ॥१॥" (वि.६०१) ततश्चासौ श्रेणिः स्वावगाहनासंस्थापितसकलानलजीवावलिरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असङ्ख्येयान् लोकमात्रान क्षेत्रविभागान् अलोके प्रामोति,एतावत्क्षेत्रमवधिरुस्कृष्टः, रक्तं च-नियगावगाहणागणिजीवसरीरावलीभमंतेण । भामिज्जा ओहिनाणीदेहपजंततो साय ॥१॥ अइगंतूणमलोगे लोगागासप्पमाणमेत्ताई।ठाइ असंखेजाई इदमोहीखेत्तमुक्कोस ॥२॥(वि.६०३-६०४)" इदं च सामर्थ्यमात्रमुपवर्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, यावतालोके तन्न विद्यते, अलोके रूपिद्रव्याणामसंभवात् , रूपिद्र 4. Maijaahelibrary.oroE ~129
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy