________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्तिः [३०], भाष्यं [-] वि० भा० गाथा [ ५९३-५९४], मूलं [- /गाथा - ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
सातव्यं, उकं च - योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह स प्राह्यः ॥ १ ॥ संहृत्य चाद्यसमये सद्यायामं करोति च प्रतरम् । सङ्ख्याती वाख्याकुल विभागबाहल्यमानं तु ॥ २ ॥ स्वतनु (क) पृथुत्वमात्रां दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ ३ ॥ सङ्ख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या तृतीयसमये तु संहृत्य ॥ ४ ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ ५ ॥ तावज्जघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ॥ ६ ॥” अत्र कश्चिदाह - किमिति योजनसहस्रायामो मत्स्यः, किं वा तस्य तृतीयसमये स्वदेहृदेशे सूक्ष्मत्वेनोत्पादः किं वा त्रिसमयाहारकत्वं परिगृह्यते १, उच्यते, इह योजनसहस्रमानो मत्स्यः स किल त्रिभिः समयैः आत्मानं सङ्क्षिपति महतः प्रयत्नविशेषात्, महाप्रयत्नविशेषाधिरूढश्चोत्पत्तिदेशेऽवगाहनामारभमाणो अतीव सूक्ष्मामारभते, ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मावगाहनो भवति, ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीये समये चातिसूक्ष्मो भवति चतुर्धादिषु तु समयेष्वतिस्थूरस्त्रिसमयाहारकस्तु योग्यस्ततस्त्रिसमयाहारकग्रहणं, उक्तं च- "मच्छो महलकाओ संखितो जो उ तीहिं समएहिं । स किर पयत्तविसेसेण सहमोगाहणं कुणइ ॥ १ ॥ सहयरा सहयरो सुहुमो पणगो जहण्णदेहो य । सुबहुविसेसविसिहो सण्हयरो सङ्घदेहेसु ॥ २ ॥ पढमबीए - + तिसण्हो जमइत्थूलो चउत्थयादीसु । तइयसमयमि जोग्गो गहियो तो तिसमयहारो ॥ ३ ॥ (वि.५९३ - ५९४ ) " अन्ये तु व्याचक्षते - त्रिसमयाहार कस्येति, आयामप्रतरसंहरणे समयद्वयं तृतीयश्च समयः सूची संहरणोत्पत्तिदेशागमविषयः, एवं त्रयः
Far Pate & Personal Use Only
127~