________________
आगम
(४०)
[भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं H. नियुक्ति: [२७,२८], भाष्यं H, वि०भा०गाथा -1, मूलं - गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: ।
प्रत
*
सूत्रांक
**
%
तथापि विनेयजनानुग्रहाय चतुर्दशविधनिक्षेपं अवधेः सम्बन्धिनमामोषध्यादिलक्षणं ऋद्धि प्राप्ताः ऋद्धिप्राप्तास्तांश्च, चशब्दः समुच्चये, वक्ष्ये-अभिधास्ये ॥ तत्र चतुर्दशविधनिक्षेपमतिपिपादयिषुस्तद्वारगाथाद्वयमाह
"ओही खेत्त परिमाणे, संठाणे आणुगामिए । अवहिए चले तिव-मंदपडिवाउप्पया इय ॥ २७॥
नाणदसणविन्भंगे, देसे खित्ते गई इय । इहीपत्ताणुओगे य, एमेया पडिवत्तीओ ॥ २८॥" इह अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चशब्दसमुच्चितत्वात् पञ्चदशं द्वारम् , तच्च चतुर्दशविधनिक्षेपवक्तव्यतानन्तरं पश्चाद्वक्ष्यते, अन्ये त्याचार्या अवधिरित्येतत्पदं परित्यज्य आनुगामिकमनानुगामिकसहितमदार्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, वदन्ति च-यस्मानावधिः प्रकृतिः, किन्तु प्रकृतिमान , प्रकृतीनां च चतु
ईशधा निक्षेप इति, पक्षद्वयेऽप्यविरोधः, तत्रावधिरिति अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, अवधिशब्दो द्विरावय॑ते, अर्थवशाच्च विभक्तिपरिणाम इति १, जघन्यमध्यमोत्कृष्टभेदभिन्नमवधेः क्षेत्रपरिमाणं वक्तव्यं २, तथा संस्थानमवधेर्वक्तव्यं ३, तथा अनुगमनशील आनुगामिकोऽवधिः सप्रतिपक्षो वक्तव्यः, एकाराम्तता सर्वत्रापि प्रथमान्तस्य प्राकृतत्वात् , यथा-'कयरे आगच्छइ दित्तरूवे' इत्यादि ४, तथा द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन् उपयोगतो लब्धितश्चावतिष्ठते इत्यवस्थितोऽवधिर्वक्तव्यः५, तथा वर्द्धमानतया क्षीयमाणतया च चल:-अनवस्थितोऽवधिवक्तव्यः ६। तधा तीब्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीनो-विशुद्धः मन्दः-अविशुद्धः तीब्रमन्दस्तूभयप्रकृतिरिति ७, तथा द्रव्याद्यपेक्षया एककाले प्रतिपातोत्पादौ वक्तव्यौ ८,तथा ज्ञानदर्शनविभङ्गा वाच्यार, किमुक्कं भवति ?-किमत्र ज्ञानं
दीप अनुक्रम
%
xA4
xx
-
ante Pulse
Hijaahelibrary.org
... अथ अवधिज्ञानस्य प्रकृतय: वर्णनं क्रियते
~123