________________
आगम
(४०)
[भाग-3] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं , नियुक्ति: [२६], भाष्यं , वि०भा०गाथा [५७२-५७४], मूलं -गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:।
प्रत
अवधेभैदा २५.२६
सूत्रांक
दीप अनुक्रम
उपोद्धातायादारभ्य विचित्रवृद्ध्या सर्वमूलद्रव्याण्युस्कृष्ट विषयपरिमाणं द्रव्यतः प्रतिवस्तुगतासङ्ग्येयपर्यायपरिमाणं विषयमान
भावतो, ज्ञेयभेदेनैव ज्ञानस्यापि भेद इति समस्तं पुद्गलास्तिकायं तत्पर्यायांश्चाङ्गीकृत्यानन्ता अवधेः प्रकृतयः, आसां च मध्ये काश्चनान्यतमाः प्रकृतयो भवप्रत्ययाः' भवन्ति कर्मवशवर्चिनः प्राणिनोऽस्मिन्निति भवो-नारकादिजन्म स पक्षिणां गगनगमनलब्धिरिवोत्पत्ती प्रत्ययः-कारणं यासां ताः भवप्रत्ययाः, ताश्च नारकामराणामेव, काश्चन पुनरन्यतमाः गुणप्रत्ययाः' क्षयोपशमेन निवृत्ताःक्षायोपशमिकाः ताश्च तिर्यमनुष्याणां, उक्तंच-"भवपञ्चइया नारयसुराण पक्खीण वा नभोग. मणं । गुणपरिणामनिमित्ता सेसाण खओवसमियाओ॥१॥” (वि.५७२) ननु अवधिज्ञानं क्षायोपशमिके भावे प्रतिपादितं, नारकादिभवस्त्वौदयिकः, ततः स कथं तासामवधिप्रकृतीनांप्रत्ययो भवितुमर्हति !, नैष दोषः, तासामपि क्षयोपशमनिबन्ध नत्वात् , केवलमसौ क्षयोपशमस्तस्मिन् नारकामरभवे सत्यवश्यंभावीति भवप्रत्ययास्ता इत्युक्तं, आह च भाष्यकृत्|"ओही खओवसमिए भावे भणितो भवो तहोदइए । तो किह भवपञ्चइओ वोत्तुं जुत्तोऽवही दोण्हं ? ॥१॥ सोवि हु
खोवसमिओ किं तु स एवम्खओवसमलाभो । तंमि सइ होअवस्सं भण्णइ भवपञ्चमओ तो सो ॥२॥" (वि. ५७३| ५७४ ) साम्प्रतं सामान्यरूपतयोद्दिष्टानामवधिप्रकृतीनां वाचः क्रमवर्तित्वादायुपश्चात्पत्वात् यथावदेन तत्प्रतिपादनसामर्थ्यमात्मनोऽपश्यनियुक्तिकृदाह
"कत्तो मे वपणे सत्ती ओहिस्स सवपयडीओ। चोदसविहनिक्खेवं इड्डीपत्ते य वोच्छामि ॥२६॥" कुतो 'में मम वर्णयितुं शक्तिरवधेः सर्वप्रकृती, नैव शक्तिरित्यर्थः, आयुषः परिमितत्वाद्वाचः क्रमवर्तित्वाच,
M
॥५०॥
Jan Educson troo
Hijaahelibrary.org
~122