________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्तिः [ २३, २४], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घाते
॥ ४९ ॥
चयार्थः, अपिशब्दः पर्यालोचयन् किञ्चित्स्वबुद्ध्याऽप्युत्प्रेक्षते इति सूचनार्थः, ततः -- पर्यालोचनानन्तरमपोहते एव| मेतत् यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तमर्थं निश्चितं स्वचेतसि विस्मृत्यभावार्थे सम्यक् धारयति, करोति च सम्यक् यथोक्तमनुष्ठानं, यथोक्तानुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुः, तदावरणकर्मक्षयोपशमनिमित्तत्वात्, अथवा यद् यद् आज्ञापयति गुरुस्तत्तत्सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते, पूर्वसन्दिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः सम्यक् शृणोति शेषं पूर्ववत् ॥ तदेवं व्याख्याता गुणाः सम्प्रति यत् शुश्रूपते इत्युक्तं तत्र श्रवणविधिमाह -
"सूर्य हुंकारं वा वाढक्कार पडिपुच्छ वीमंसा । तत्तो पसंग पारायणं च परिणिट्ट सत्समए ॥ २३ ॥” 'मूक' मिति प्रथमतो मूकं शृणुयात् किमुक्तं भवति १ - प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत, ततो द्वितीये श्रवणे हुङ्कारं दद्यात्, वन्दनं कुर्यादित्यर्थः, तृतीये वाढकारं कुर्यात्, बाढं- एवमेतत् नान्यथेति प्रशंसेदित्यर्थः, चतुर्थे श्रवणे गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् कथमेतत् इति पश्चमे मीमांसां प्रमाणजिज्ञासां कुर्यादिति भावः, षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गं पारगमनं चास्य भवति, ततो सप्तमे श्रवणे परिनिष्ठो, गुरुवदनुभाषते इत्यर्थः ॥ एवं तावत् श्रवणविधिरुक्तः, सम्प्रति व्याख्यानविधिमभिधित्सुराह-
"सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसितो भणितो । तहओ य निरवसेसो एस विही होइ अणुओगे २४" प्रथमोऽनुयोगः सूत्रार्थ :- सूत्रार्थप्रतिपादनपरः, खलु एवकारार्थः स चावधारणे, ततोऽयमर्थ:--- गुरुणा प्रथमोऽनु
Far Fate & Personal Use Only
120~
बुद्धिगुणाः अनुयोगविधिः
२१-२४
॥ ४९ ॥
www.janelibrary.or