SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १ अध्ययनं [-], निर्युक्तिः [२०], भाष्यं [-] वि० भा० गाथा [ ५३७], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः यादिवत्, पर्यायास्तिकनयमतादेशेन सादिसपर्यवसितं अनित्यत्वात् नारकादिपर्यायवत्, आह व भाष्यकृत् - "अस्थिति नयस्तेयं अणाइपज्ञ्यंतमत्थिकायच । इयरस्स साइसंतं गइपज्जा एहिं जीवन ॥ १ ॥ (वि०५३७)” अथवा द्रव्यादिचतुष्टयमधिकृत्य साधनाद्यादि भावनीयम्, तद्यथा - एकं पुरुषं प्रतीत्य सादिसपर्यवसितं नानाजीवानाश्रित्यानाद्यपर्यवसितं, कदाचिदपि व्यवच्छेदाभावात्, क्षेत्रतः पश्च भरतानि पञ्चैरवतानि प्रतीत्य सादिसपर्यवसितं, सुषमसुषमादावभावात् पञ्च महाविदेहानधिकृत्यानाद्यपर्यवसितं सकलकालं तत्र भावात्, कालतोऽवसर्पिणीं उत्सर्पिणीं चाधिकृत्य सादिसपर्यवसितं तृतीयाद्यरकेष्वेव भावात्, नोत्सर्पिण्यवसर्पिणीमधिकृत्यानाद्यपर्यवसितं, महाविदेहेषु सततं भावात्, भावतः प्रज्ञापकगतान् उपयोगस्वरप्रयक्षस्थानविशेषादीन् भावान् गतिस्थानभेदसङ्घातवर्णरसगन्धस्पर्शनादीन् ज्ञेयग| तांश्च भावान् प्रतीत्य सादिसपर्यवसितं प्रज्ञापकभावानां ज्ञेयभावानां चान्यथान्यथाभावात्, क्षायोपशमिकं पुनर्भावम श्रीकृत्यानाद्यपर्यवसितं तस्य सर्वकालं भात्रात्, खलुशब्द एवकारार्थः स चावधारणे तस्य च व्यवहितः सम्बन्धः, सप्तैवैते श्रुतपक्षाः सप्रतिपक्षाः, न पुनः पक्षान्तरमस्ति, सतोऽत्रैवान्तर्भावात् । सम्प्रति गमिकद्वारं तत्र गमा-भङ्गकाः गणितादिविशेषाश्च, यदिवा कारणवशतो ये सदृशपाठास्ते गमाः तेऽस्य सन्तीति गमिकं 'अतोऽनेकस्वरा' दितिमत्वर्थीय इकप्रत्ययः, तच्च प्रायो दृष्टिवादः, उक्तं च नन्यध्ययने- "गर्मियं दिट्टिवादो” इति यत्पुनरसदृशपाठं तद् अगमिकं तच्च प्रायः | कालिकं । साम्प्रतं अंगप्रविष्टद्वारं-- अथ अङ्गप्रविष्टानङ्गप्रविष्टयोः कः प्रतिविशेषः १, उच्यते, यद् गणधरैः साक्षाद् | दृब्धं तयज्ञमविष्टं तच्च द्वादशाङ्गं, यत्पुनः स्थविरैर्भद्रबाहुस्वामिप्रभृतिभिराचार्यैरुपनिबद्धं तदनङ्गप्रविष्टं, तचावश्यक Far Fate & Personal Use Only ~117~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy