________________
आगम
(४०)
प्रत सूत्रांक
[H]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्तिः [२०], भाष्यं [-] वि० भा० गाथा [ ५१५-५१७], मूलं [- / गाथा-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोग्रा
॥ ४७ ॥
| मध्य मन्यते चिन्तनीयं वस्तुजातं, तेनासौ गर्भजस्तिर्यग्मनुष्यो वा देवो नारको वा द्रष्टव्यो, न शेष एकेन्द्रियादिः, विशिष्टमनोलब्धिविकलत्वात्, तथा च सति दीर्घकालिकोपदेशेनासंज्ञी एकेन्द्रियो द्वीन्द्रियादिश्च प्रतिपत्तव्यः, हेतुर्निमित्तं कारणमित्यनर्थान्तरं तस्य वदनं वादः तद्विषय उपदेशः - प्ररूपणं हेतुवादोपदेशस्तेन संज्ञी, यो बुद्धिपूर्वकं स्वदेहपरि| पालनाय इष्टेष्वाहारादिषु प्रवर्त्तते अनिष्टेभ्यस्तु निवर्त्तते स च द्वीन्द्रियादिरपि वेदितव्यः, तस्यापि मनःसञ्चिन्तनपूर्वक मिष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात्, केवलमस्य मनसा चिन्तनं प्रायो वर्त्तमानकालविषयं न भूतभविष्यद्विषयमल्पमनोलब्धिसम्पन्नत्वात्, ततो न दीर्घकालिकोपदेशेन संज्ञी लभ्यते, एतन्मतेनासंज्ञिन एकेन्द्रिया एव द्रष्टव्याः, उन्तं च- "जे पुण सचितेरं इडाणिट्ठेसु विसयवत्थुसुं । वति नियत्तंति य सदेहपरिपालणाहेरं ॥ १ ॥ पापण संपइच्चिय कामि तया ण दीहकालण्णू । ते हेउवायसण्णी निच्चिट्ठा होति उ असण्णी ॥२॥” (वि०५१५-५१६) तथा दृष्टिः दर्शनंसम्यक्त्वादि तस्य वदनं वादः तद्विषय उपदेशः- प्ररूपणं तेन संज्ञी - सम्यग्दृष्टिस्तस्य संज्ञा ज्ञानावरणक्षयोपशमभावात्, असंझी मिष्यादृष्टिः, उक्तं च- "सम्मद्दिट्ठी सण्णी संते नाणे खओवसमियंमि । अस्सण्णी मिच्छतं दिट्ठीवायोवएसेणं ॥१॥ (वि०५१७)" ततश्च संज्ञिनः श्रुतं संज्ञिश्रुतं, तथा असंज्ञिनः श्रुतमसंज्ञिश्रुतं, तथा सम्यक् श्रुतं - अङ्गानङ्गप्रविष्टमचारावश्यकादि, तथा मिथ्या श्रुतं पुराणरामायणभारतादि, सर्वमेव वा दर्शनपरिग्रहविशेषात्सम्यक् श्रुतं इतरद्वा, तथाहि-सम्यग्दृष्टौ सर्वमपि श्रुतं सम्यक् श्रुतं, हेयोपादेयशास्त्राणांहेयोपादेयतया परिज्ञानात्, मिथ्यादृष्टौ सर्व मिथ्या श्रुतं विपर्ययात् ॥ तथा सादिसपर्यवसितमनाद्यपर्यवसितं च नयानुसारतोऽवसेयं, तत्र द्रव्यास्तिकनयमतादेशेन अनाद्यपर्यवसितं धर्मास्तिका
116~
संज्ञिश्रुतादिभेदाः
॥ ४७ ॥