SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [३५], वर्ग B, अंतर्-शतक [१-१२], उद्देशक [१-११], मूलं [८५५-८५९] (०५) प्रत श्रीभग लघुवृत्ती 2 उद्देशः सूत्रांक [८५५८५९] राशिः कृतयुग्मकृतयुग्म इत्युच्यते, अपहियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वाद् , एवमन्यत्रापि शब्दार्थों ३५० योज्यः, स च किल जघन्यतः पोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरग्रत्वात् समयानां च चतुःसयत्वादिति १ 'कडजु- म्मतेउएत्ति यो राशिः प्रतिसमयं चतुष्कापहारेणापहियमाणस्त्रिपर्यवसानः स्यात् तत्समयाश्च चतुःपर्यवसिता एव असावपहियमाणापेक्षया योजः अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मन्योज इत्युच्यते, यथा जघन्यत एकोनविंशतिः, तत्र हि चतुकापहारे त्रयोऽवशिष्यते तत्समयाश्च चत्वार एव २। एवं राशिभेदसूत्राणि तद्विवरणं च सूत्रेभ्यो ज्ञेयानि, एवं सर्वत्राप्यपहारस-1 मयापेक्षमायं पदं अपहियमाणद्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयादारभ्योदाहरणानि कृतयुग्मद्वापरः अष्टादशादयः ३ कृतयु-14 ग्मकल्योजः सप्तदशादयः४ व्योजःकृतयुग्मषोडशादयः, एषां हि चतुष्कापहारे चतुरग्रत्वात् तत्समयानां च त्रित्वादिति ५ व्योजत्र्योजराशौ तु पञ्चदशादयः ६ व्योजद्वापरे तु चतुर्दशादयः ७ व्योजकल्योजे तु त्रयोदशादयः ८ द्वापरकृतयुग्मेऽष्टादयः ९ द्वापर-1 योजराशौ एकादशादयः १० द्वापरद्वापरे दशादयः ११ द्वापरकल्योजे नवादयः १२ कल्योजकृतयुग्मे चतुरादयः १३ कल्योजन्योजराशौ सप्तादयः १४ कल्योजद्वापरे षडादयः १५ कल्योजकल्योजे च पंचादयः १६ इति । 'कडजुम्मकडजुम्मएगि-11 दिय'ति (सू . ८५६) ये एकेन्द्रियाचतुष्कापहारे चम्पर्यवसानास्ते कृतयुग्मकृतयुग्मैकेन्द्रिया इत्येयं सर्वत्रेति, 'जहा उप्पलुद्दे-11 सए'त्ति उत्पलोद्देशक एकादशशते प्रथमः, इह च यत्र कचित्पदे उत्पलोद्देशातिदेशः क्रियते स च तत एवावधार्यः,'संवेहो न भ-18 पणइत्ति उत्पलोद्देशक उत्पलजीवस्योत्पादो विवक्षितः, तत्र च पृथ्वीकायादिकान्तरापेक्षया संवेधसम्भवः, इह त्वेकेन्द्रियाणां कृतयुग्मविशेषणानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते, तेषां चोदृत्तेरसम्भवात् संवेधो न सम्भवति, यश्च पोडशादीना दीप अनुक्रम [१०४४१०५७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: ~305
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy