SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [३०], वर्ग , अंतर्-शतक H. उद्देशक [१-११], मूलं [८२४-८२८] (०५) श्रीभग ३० ३ लघुची उद्देश प्रत सूत्रांक [८२४ ८२८] अथ त्रिंशमारभ्यते-'समोसरण'त्ति (सू. ८२४) समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतया येषु मतेषु तानि समवसरणानि, 'किरियावाईति क्रिया कारं विना न सम्भवति, सा चात्मसमवायिनीति ये वदन्ति ते क्रियावादिनः, ते चाशीत्यधिकशतं स्थानान्तरादवसेयाः, अन्ये त्वाहुः-क्रियैव प्रधाना, किं ज्ञानेन? एवमन्यत्रापि, 'अकिरियावाई'ति अक्रियां-क्रियाया |R अभावं, नहि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया सम्भवति, तद्भावे चानवस्थितेरभावादिति, इदं ये बदन्ति तेऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया । भूतिर्येषां क्रिया सैन, कारकं सैव चोच्यत॥शा" इत्यादि,अन्ये | वाहुः-अक्रियावादिनो ये ब्रुवते-किं क्रियया ?, चित्तशुद्धिरेव कार्या, ते च बौद्धाः, अन्ये तु व्याख्यान्ति-अक्रियां-जीवादिः पदार्थों नास्ति इत्यादिकां वदितुं शीलं येषां ते अक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाचतुरशीतिविकल्पाः स्थानान्तरादवसेयाः, 'अन्नाणियवाइ'त्ति अज्ञानिकवादिनः, ते चाज्ञानमेव श्रेयः असश्चिन्त्यकृतकर्मबन्धवैफल्यात , तथा ज्ञान न कस्यापि कचिदपि वस्तुन्यस्ति, प्रमाणानामसम्पूर्णवस्तुविषयत्वादिति येऽभ्युपगतवन्तः, ते सप्तपष्टिसख्याः स्थानान्तरादवसेयाः, 'वेणइयवाई ति वैनयिकवादिनः, विनय एंव वैनयिकं तदेव यैः स्वर्गादिहेतुतया वदन्ति इत्येवंशीलास्ते वैनयिकवादिनः, एते चान-IR |वधृतलिङ्गाचारशास्त्रविनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः स्थानान्तरादवसेयाः, अत्रार्थे "अस्थिति किरियवाई वयंति नस्थितिकिरियवाईओ। अनाणिय अन्नाणं वेणइया विणयवायति ॥शा" एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टय उक्ताः तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, सम्यस्थितवादिनामेव तेषां समाश्रयणादिति। 'जीवाणं'ति तत्र जीवाश्चतुर्विधा अपि तथा स्वभावात् 'अले|स्सा-णं'ति अलेश्याः अयोगिनः सिद्धाच, ते च क्रियावादिन एव, क्रियावादहेतुभूतयथावखितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्त दीप अनुक्रम [९९८१००२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्रा०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: ... अत्र शतक-३० आरभ्यते ~295
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy