SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७१६ ८०९] गाथा दीप अनुक्रम [८६१ ९७४] श्रीभग० लघुवृत्तौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा शेषेषु त्रिषु एवं माने विगते द्वयोः मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थान के एकत्र लोभे भवेदिति । लेश्याद्वारे– 'तिसु विसुद्धासुनि (यू. ७६९) भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादयस्त्रयः स्युः, कषायकुशीलस्तु पद्स्वपि सकषायमेवाश्रित्य 'पुव्व पडिवण्णओ पुण अण्णय रीए उ लेसाए' इत्येतदुक्तमिति सम्भाव्यते, 'एक्काए परमसुकाए 'त्ति शुक्लध्यानतृतीय भेदाभावावसरे या लेश्या सा परमशुक्ला, अन्यदा तु शुक्लैब, साऽपीतरजीव शुक्ललेश्यापेक्षया परमशुक्लेति । परिणामद्वारे 'बडूमाणपरिणामे ति (सू. ७७०) तत्र वर्द्धमानः शुद्धेरुत्कर्षं गच्छन्, हीयमानस्त्वपकर्षं गच्छन्, अवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरिणामो न स्यात् तस्य परिणामहानौ कषायकुशीलव्यपदेशात्, स्नातकस्तु हानिकारणाभावात् न हीयमानपरिणामः स्वादिति ।। 'पुलाए णं'ति तत्र पुलाको वर्द्धमानपरिणामकाले कषायविशेषेणावाधिते तस्मिन् तस्यैकादिकं समयमनुभवतीत्युच्यते जघन्येनैकं समयमिति 'उको सेणमंतोमुहुत्तं 'ति एतत्स्वभावात् वर्द्धमानपरिणामस्य एवं बकुशप्रतिसेवा कुशीलकपायकुशीलेष्वपि, नवरं कुशादीनां जघन्यत एकसमयता मरणादपीष्टा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात् सहि मरणकाले कपायकुशीलत्वादिना परिणमति, यच्च प्राकू पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निर्ग्रन्थो जघन्येनोत्कर्षेण चान्तर्मुहूर्त्तं वर्द्धमानपरिणामः स्यात्, केवलज्ञानोत्पत्तौ परिणामान्तराभावात्, अवस्थित परिणामः पुनर्निर्ग्रन्थस्य जघन्यत एकं समयं मरणात् स्यादिति, 'सिणार णं भंते 'ति स्नातको जघन्येतराभ्यां अन्तर्मुहूर्त्तवर्द्धमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वान्, अवस्थितपरिणामकालोऽपि जघन्यस्तस्यान्तर्मुहर्त्त, कथं ? उच्यते यः केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्त्तमवस्थितपरिणामो भूत्वा शैलेशीं प्रतिपद्यते तदपेक्षयेति, 'उकोसेणं देसूण'त्ति पूर्वको व्यायुर्नरस्य जन्मतो जघन्येन नवसु वर्षेष्यतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदूनां पूर्वकोटीम १२५ ३०. ६ उद्देशः पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः ~265~
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy