________________
आगम
(०५)
प्रत
सूत्रांक
[७१६
८०९]
गाथा
दीप अनुक्रम [८६१
९७४]
श्रीभग० लघुवृत्तौ
0000000000
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१२ ], मूलं [ ७१६-८०९] + गाथा
विधविशुद्ध्यभावात्, 'कसायकुसीलेणं समं छट्ठाण'ति, पुलाकापेक्षया यथा उक्तस्तथा कषायकुशीलापेक्षयाऽपि वाच्य इति, तत्र पुलाकः कषायकुशीलाद्वीनो वा स्यात्, अविशुद्धसंयमस्थानवृत्तित्वात्, तुल्यो वा स्यात् समसंयमस्थानवृत्तित्वात् अधिको वा स्वाच्छुद्धतरसंयमस्थानवृत्तित्वात् यतः पुलाकस्य कपायकुशीलस्य च सर्वजघन्यानि संयमस्थानानि अधः, ततस्ते युगपदसङ्ख्येयानि संयमस्थानानि गच्छतः, तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते, हीनपरिणामत्वात् व्यवच्छिन्ने पुलाके कपायकुशील एक एवासङ्ख्येयानि संयमस्थानानि गच्छति, शुभतरपरिणामत्वात् ततः प्रतिसेवनाकपायकुशीलौ च सङ्ख्येयानि संयमस्थानानि गच्छतः, ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कपायकुशीलस्त्वरूपेयानि संयमस्थानानि गच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमस्थानं प्रामुतः, 'नियण्ठस्स जहा बउसस्स' ति पुलाको निर्ग्रन्थादनन्तगुणहीन इत्यर्थः। शेषैस्सह पुलाकश्चिन्तितः, अथ बकुशचिन्त्यते च कुशः पुलाकादनन्तगुणाभ्यधिको विशुद्धपरिणामत्वात् वकुशात्तु हीनादिविचित्र परिणामत्वात्, प्रतिसेवाकषायकुशीलाभ्यामपि हीनादिरेच, निर्ग्रन्थस्नातकाभ्यामपि हीन एवेति 'बउसवक्त्तव्वया भाणियव्य'त्ति प्रतिसेवाकुशीलस्तथा वाच्यः, यथा बकुश इत्यर्थः, कपायकुशलोऽपि वकुशद्वाच्यः केवलं पुलाकात् कुशोऽधिक एवोक्तः, सकपायस्तु पदस्थानपतितो वाच्यः, हीनादिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षया हीन समाधिकस्वभावत्वात् ।। अथ तेषां जघन्यादिभेदानां पुलाकादिसम्बन्धिनामल्पत्वाद्याह- 'एएसिणं' | योगद्वारे 'अजोगी वा होज 'ति (सू. ७६६ ) इहायोगी शैलेशीकरणे १६ । उपयोगद्वार (सू. ७६७) सुगमत्वान्न विवृतं १७। कपायद्वारे 'सकसाथी होज 'ति (मू. ७६८) पुलाकस्य कषायाणां क्षयस्योपशमस्य चाभावात् । 'तिसु होमाण'ति उपशमश्रेण्यां क्षपकश्रेण्यां वा सज्ज्वलने क्रोधे उपशान्ते क्षीणे वा
१२५ ४०
६ उद्देशः
~264~
॥२७५॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः