________________
आगम
(०५)
प्रत
सूत्रांक
[७१६
८०९]
गाथा
दीप
अनुक्रम [८६१
९७४]
श्रीभग०
लघुवृत्तौ
DEJIDOCJOCSchilli
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [२५], वर्ग [-] अंतर-शतक [-] उद्देशक [१-१२], मूलं [७१६ ८०९] + गाथा
तच्चोत्तराध्ययनेषु प्रवचनमातृनामकमध्ययनं, न तद् गुरुत्वात् । तीर्थद्वारे 'तित्थे 'ति (सू. ७५८) संधे सति 'कसायकुसीले ति | कषायकुशीलश्च छद्मस्थावस्थायां तीर्थकरोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च 'तित्थे वा होजे त्युच्यते, अत एवाह-'जइ अतित्थे होजा किं तित्थगरे होजे' त्यादि। (सू. ७५९ ) लिङ्गद्वारे लिङ्गं द्विधाद्रव्यभावभेदात्, तत्र च खलिङ्गं रजोहरणादि, परलिङ्गं द्विधा-कुतीर्थिलिङ्गं गृहस्थलिङ्गं च खलिङ्गं च 'सलिंगे'त्ति, त्रिविधलिङ्गेऽपि स्याद्रव्यलिङ्गानपेक्षत्वाच्चरणपरिणामस्येति । (सू. ७६०) शरीरद्वारं व्यक्तम् । क्षेत्रद्वारे - 'जम्मणसंति भाव' ति (सू.७६१) जन्म-उत्पादः सद्भावश्च विवक्षितक्षेत्रादन्यत्र जातस्य तत्र चरणभावेनास्तित्वमेतयोस्ततः तौ प्रतीत्य कर्मभूमौ स्यात्, तत्र जायते विहरति चेत्यर्थः, अकर्मभूमौ पुनरसौ न स्यात्, तञ्जातस्य चारित्राभावात् न च तत्र वर्त्तते, पुलाकलब्धौ वर्त्तमानस्य देवादिभिः संहर्तुमशक्यत्वात् चकुशसूत्रे 'नो अकम्मभूमीए 'ति अकर्म्मभूमौ बकुशस्य न जन्म स्यात्, तत्र परं स्वकृतः परकतथ विहारस्सम्भवति, अतः 'संहरणं पडुच'ति संहरणं - क्षेत्रान्तरे देवादिभिर्नयनं । (सू. ७६२) कालद्वारे त्रिविधः कालोऽवसर्पिण्यादिः, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तु महाविदेह हैमवतादिषु, 'सुसमदुस्समकाले वा होज'त्ति आदिदेवकाल इत्यर्थः, 'दुस्समसुसमकाले वत्ति चतुर्थेऽऽके इत्यर्थः, उक्तात् समाद्वयान्नान्यत्र चासौ स्यात्, सम्भावं ति अवसर्पिण्यां सद्भावं प्रतीत्य | ३/४/५ आरकेषु स्यात्, तत्र चतुर्थारके जातस्सन् पक्षमेऽपि वर्त्तते, तृतीयतुर्यारकस्य सद्भावस्तु तज्जन्मपूर्वकः, 'जइ उस्सप्पि - | णीत्यादि, उत्सर्पिण्यां २ | ३ |४| आरकेषु जन्मतः स्यात्, तत्र द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोश्च जायते चरणं च प्रतिपद्यते, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति, 'जड़ णोउसप्पि
२५ श० ६ उद्देशः
~ 260~
॥२७३॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः