________________
आगम
(०५)
प्रत
सूत्रांक
[७१६
८०९]
गाथा
दीप
अनुक्रम
[८६१
९७४]
श्रीभग० लघुवृत्तौ
G
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१२], मूलं [७१६-८०९] + गाथा
नपुंसकवेदको वर्द्धितकत्वादिभावेनासौ स्यात् पुरुषनपुंसकवेदको, न स्वरूपेणेतियावत्, 'कसायकुसीले णमित्यादौ, 'उवसं तवेदए होजा'ति सूक्ष्मसम्परायगुणस्थानं यावत् कपायकुशीलः स्यात् स च प्रमत्ताश्रमत्तापूर्वकरणेषु सवेदः अनिवृत्तिवादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात् सूक्ष्मसंपराये वेति, 'नियंडे ण' मित्यादौ 'उवसंत वेदए वा होआ खीणवे० ' श्रेणिद्वये निर्ग्रन्थत्वभावात् 'सिणाए ण'मित्यादौ 'नो उवसंतवेयए होजा, स्वीणवेयए होज्ज' ति क्षपकश्रेण्यामेव स्नातकस्य भावादिति । रागद्वारे 'किं सरागो'त्ति (सू. ७५२) सरागः - सकषायः । कल्पद्वारे 'किं टियकप्पे ति (मू. ७५३) आचेलक्यादिषु १० पदेषु | प्रथमपश्चिमतीर्थकृत्साधवः स्थिता एव, अवश्यं तत्पालनादिति तेषां स्थिति - कल्पः, तत्र वा पुलाकः स्यात्, मध्यमतीर्थकृत्साधवस्तु तेषु स्थिताश्चास्थिताश्वेत्यस्थितकल्पस्तेषां तत्र वा पुलाकः स्यात् एवं सर्वेऽपि, अथवा कल्पो जिनकल्पः स्थविरकल्पश्चेति द्विधा, तमाश्रित्याह- 'किं जिणकप्पे'त्ति 'कप्पातीते' त्ति जिनकल्पस्थविरकल्पाभ्यामन्यत्र, 'कसायकुसीले ण' मित्यादौ 'कप्पातीए वा होज्ज'ति कल्पातीते वा कषायकुशीलः स्यात्, कल्पातीतस्य छद्मस्थतीर्थकृतः सकषायत्वादिति, 'नियंडे ण' मित्यादौ 'कप्पातीते होजा' निर्ग्रन्थः कल्पातीत एव स्यात्, यतस्तस्य जिनकल्पस्थविरकल्पधर्मा न सन्ति ।। चरित्रद्वारे (सू. ७५४ ) व्यक्तमेव, प्रतिसेवनाद्वारे 'पडिसेवए'ति (सू. ७५५) सबलनकपायोदयात् संयमप्रतिकूलार्थस्य सेवकः प्रतिसेवकः, संयमविराधक इत्यर्थः एवं मूलगुणप्रतिसेवकः, नवरमुत्तरगुणा-दशविधप्रत्याख्यानरूपाः, 'दसविहस्स' त्ति 'अणागयमइकंत मित्यादि दशविधं, 'नमुकार पोरिसीए' इत्याद्यपि दशविधं, 'अण्णयरं 'ति एकतरं प्रत्याख्यानं विराधयेत् पिण्डविशुद्ध्यादिविराधकत्वमपि सम्भाव्यत इति । (स. ७५६) ज्ञानद्वारे मतिज्ञानादीनि । (सू. ७५७) श्रुतद्वारे अष्टप्रवचनमात्रश्रुतं वकुशस्य जघन्यं स्यात्,
२५ शु०
६ उद्देशः
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
~ 259~