SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] श्रीभग० लघुवृत्तौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [९], वर्ग [-] अंतर् शतक [], उद्देशक [१-३४] मूलं [३६०-३९२] + गाथा स्यात् तत्सद्भावे चाश्रुत्वाऽपि धर्मं लभेत श्रोतुं, क्षयोपशमस्यैव तल्लाभे अन्तरङ्गकारणत्वादिति, 'केवलं बोहिं' ति शुद्धं सम्यग्दर्शनं 'बुज्झेज्ज'त्ति बुध्येत, अनुभवेदित्यर्थः, यथा प्रत्येकबुद्धादिः, एवमग्रेऽपि वाच्यं, 'दरसणावरणिजाणं' ति इह दर्शनावरणीयं दर्शनमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात्, तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति, 'केवलं 'ति केवलां शुद्धां सम्पूर्णा वा अनगारतामिति, 'धम्मंतराइयाणं 'ति धर्मान्तरायिकाणां वीर्यान्तरायचारित्रमोहनीय भेदानामित्यर्थः, 'चारित्तावरणिज'ति इह वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यस्य वा विशेषतस्तेषामेवावारकत्वात्, 'जय|णावरणिजाणं'ति यतनावरणीयानि चारित्रविशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि, 'अज्झवसाणावरणिजाणं ति संवरशब्देन शुभाध्यवसायवृत्तेर्विवक्षितत्वात् तस्याश्र भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वाद् अध्यवसानावरणीयशब्देनेह भावचारित्रावरणीयान्युक्तानि इति, पूर्वोक्तानेवार्थान् पुनः समुदायेनाह - 'असोचा णं भंते' इत्यादि, अथाश्रुत्वैव केवल्यादिवचो यथा कश्चित् केवलज्ञानमुत्पादयेत् तथा दर्शयितुमाह-'तस्स' त्ति (मु. ३६५) योऽश्रुत्वैव केवलज्ञानमुत्पादयेत् तस्य कस्यापि 'छछट्टेण' मित्यादि च यदुक्तं तत्प्रायः षष्ठतपश्चरणचतो चालतपस्विनो विभङ्गज्ञानविशेष उत्पद्यते इति ज्ञापनार्थमिति, 'पगिज्झिय' ति प्रगृह्य, धृत्वेत्यर्थः, ' तयावर णिज्जाणं' ति विभङ्गज्ञानावरणीयानां 'ईहापोहमग्गगगवेसणं' ति इहेहा-सदर्थालोचनचेष्टा अपोहवतद्विपक्षनिरासः मार्गणं-अन्वयधम्र्म्मालोचनं गवेषणं व्यतिरेकधम्मालोचन मिति, 'से णं' ति स बालसपखी 'जीवे विजाणइति कथञ्चिदेव, न तु साक्षात् मूर्त्तगोचरत्वात् तस्य, 'पाखंडत्थे 'ति व्रतस्थान् 'सारंभसपरिग्गहे' त्ति सारम्भसपरिग्रहान्, किंविधान् जानातीत्याह-'संकिलिस्स' त्ति महासंक्लेशतया संक्लिश्यमानानपि जानाति, 'विसुज्झत्ति अल्पीयस्यापि विशुद्ध्या विशुध्ध्य शतके उद्देश: ~24~ ।।१५५ ।। पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः ... अत्र शतक ९, उद्देशका: चतुर्थात् त्रिंशत् पर्यन्ताः वर्तन्ते । मूल संपादने यत् उद्देशकः ४ मुद्रितं तत् मुद्रणदोषः ज्ञातव्यः
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy