SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] श्रीभग० लघुवृत्ती CLIC “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग-२ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६० ३९२ ] + गाथा मानानपि जानाति, आरम्भादिमतामेवंस्वरूपत्वात् 'से णं'ति स विभङ्गज्ञानी जीवाजीवस्वरूपपाखण्डस्थसंक्लिश्यमानतादिज्ञाता 'पुव्वामेव 'त्ति चारित्रप्रतिपत्तेः पूर्वमेव 'सम्मत्त 'ति सम्यग्भावं 'रोएइ'ति श्रद्धते 'ओही परावत्तइ' अवधिर्भवतीत्यर्थः, इह यद्यपि चारित्रप्रतिपत्तिमादायुक्त्वा परिगृहीतं विभङ्गज्ञानमवधिः स्यादिति पश्चादुक्तं तथापि चारित्रप्रतिपत्तेः पूर्व, सम्यक्त्व प्रतिपत्तिकाल एव विभङ्गाभावादिति । अथैनमेव लेश्यादिभिर्निरूपयन्नाह - 'से णं ति (सू. ३६६ ) स यो विभङ्गज्ञानी भूत्वा अवधिज्ञानं चारित्रं वा श्रितः, 'तिसु सुद्ध'त्ति यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते, नाविशुद्धाखिति, 'तिसु आभिनिबोहि'त्ति सम्यक्त्वमतिश्रुतावधिज्ञानानां विभङ्गवमनकाले तस्य युगपद्भावाद् आद्ये ज्ञानत्रय एवासौ तदा वर्त्तत इति, 'नो अजोगि'त्ति अवधिज्ञानकाले अयोगित्वस्याभावात्, 'मणजोगि त्ति एकतरयोगप्राधान्यादवगन्तव्यं, 'सागारोवउत्ते वे 'ति तस्य हि विभङ्गज्ञानाभिवर्त्तमानस्योपयोगद्वयेऽपि वर्त्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिरस्ति, ननु 'सब्बाओ लद्धीओ सागारोवओगोवउतस्स भवंती' त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधः, नैवं, प्रवर्द्धमानपरिणाम जीव विषयत्वात् तस्यागमस्य, अवस्थितपरिणामापेक्षया चानाकारोपयोगेऽपि लब्धिलाभस्य सम्भवादिति, 'बइरोसह 'त्ति प्राप्तव्य केवलज्ञानत्वात् तस्य, केवलप्राप्तिश्च प्रथमसंहनन एव स्यादिति, 'सवेयए 'त्ति विभङ्गस्यावधिभावकाले न वेदक्षयोऽस्ति इत्यसौ सवेद एव, 'नो इत्थवेय'त्ति स्त्रिया एवंविधव्यतिकरस्य स्वभावत एवाभावात्, 'पुरिसनपुंसग' त्ति कृत्रिमनपुंसकः- पुरुषनपुंसकः 'सकसाई'त्ति विभङ्गावधिकाले कपायक्षयस्याभावात्, 'चउसु संजण'त्ति स अवधिज्ञानतापरिणत विभङ्गज्ञान वरणप्रतिपन्न उक्तः, तस्य च तत्काले चरणयुक्तत्वात् सलना एव क्रोधादयः स्युरिति, 'पसत्य'त्ति विभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसायस्य स्याद्, अत उक्तं प्रशस्ताध्य शतके १४ उद्देशः ~25~ 5000045 पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः ••• अत्र शतक ९, उद्देशक: ३१ वर्तते । मूल संपादने यत् उद्देशकः ४ मुद्रितं तत् मुद्रणदोषः ज्ञातव्यः
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy